________________
लोकप्रकाशे काललोके २९ सर्गे
॥४२०॥
अनंतेहिं आउअपज्जवेहिं अनंतगुणपरिहाणीए परिहायमाणे २” इति ॥ एवं चाधारकस्यादौ, त्रिक्रोशप्रमितं द्वितीयारकवपुः । त्रिपल्य प्रमितं चायुर्युग्मिनां प्राग् यदीरितम् ॥ ५९ ॥ तद्धीयमानं क्रमेणाधारकान्ते तु युग्मिनाम् । स्यादू विक्रोशोधमङ्गं द्विपत्यमानं च जीवितम् ॥ ६० ॥
वर्णनं
१५
एवं दशखपि क्षेत्रेष्वर के प्रथमे गते। द्वैतीथीको रकस्तेषु, सुषमाख्यः प्रवर्त्तते ॥ ६१ ॥ तस्मिन् कालेऽपि मनुजाः, पूर्ववद्युग्मिनोऽथ ते । अनन्तगुणहीनाः स्युः पूर्वेभ्यो गुणलक्षणैः ॥ ६२ ॥ पृथ्वीपुष्पफलाहारास्तेऽहोरात्रद्वयान्तरे । काङ्क्षन्ति पुनराहारं, बदरीफलमात्रकम् ॥ ६३ ॥ चतुष्षष्टिं दिनान्येते, कुर्वतेऽपत्यपालनम् । अवस्थाः प्राग्वदत्रापि, भाव्याः सप्त यथाक्रमम् ॥ ६४ ॥ चतुष्षष्टिरहोरात्रा, हियन्ते यदि सप्तभिः । एकैकस्या अवस्थायास्तदा कालो भवत्ययम् ॥ ६५ ॥ दिनानि नव घट्योऽष्टौ चतुस्त्रिंशत्पलानि च । अक्षराणि सप्तदश, किंचित्समधिकानि च ॥ ६६ ॥ यत्पूर्वेभ्योऽधिकोऽपत्यपालने काल ईरितः । तदुत्थानबलादीनामनन्तगुणहानितः ॥ ६७ ॥ पूर्वकालापेक्षयाऽत्र, भूयसाऽनेहसा भवेत् । बालानां व्यक्तता भाव्यमेवमग्रेऽपि धीधनैः ॥ ६८ ॥ पूर्वोक्तषट्प्रकारास्तु, भवन्त्यत्र न मानवाः । तादृक्कालानुभावेन, वक्ष्यमाणा भवन्ति च ॥ ६९ ॥ एका: १ प्रचुरजङ्घाश्च २, कुसुमाख्या ३ स्तदा भुवि । तथा सुशमना ४एव, मनुष्याः स्युचतुर्विधाः ||१०|| रूढाः शब्दा अमी प्राग्वत्, जनानां जातिवाचकाः । अन्वर्थजिज्ञासायां तु, सोऽपि भाव्या क्रमादिति ॥ ७१ ॥ एकाः श्रेष्ठाः पुष्टजङ्घतया प्रचुरजङ्घकाः । कुसुमाः पुष्पमृदवः, सम्यकशान्तियुजोऽन्तिमाः ॥ ७२ ॥ भूमेः खरूपं यत्प्रोक्तं,
Jain Educationational
For Private & Personal Use Only
२०
२५
॥४२०॥ २७
jainelibrary.org