SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ २९ सर्गे ॥ ४१९ ॥ लोकप्रकाशे नत्वनन्तगुणा हानिरित्येवं कर्मधारयः ॥ ३६ ॥ अत्र स इति समासो वैयाकरणरूढेः पदैकदेशे पदसकाललोके मुदायोपचारादेति ॥ अनन्तगुणहानिभावना चैवं - आधारकायसमये, वर्त्तते यो दुमादिषु । सर्वोत्कृष्टः शुक्लवर्णः, केवलिप्रज्ञयाऽस्य च ॥ ३७ ॥ छिद्यमानस्य भागाः स्युर्निर्विभागा अनन्तशः । एते सर्वजीवराशेः, | स्युरनन्तगुणाधिकाः ॥ ३८ ॥ तेषां मध्याद्वाशिरेकोऽनन्तभागात्मकखुटेत् । द्वितीये समये चैवं, तृतीयादिक्षणेष्वपि ॥ ३९ ॥ इत्येवमवसर्पिण्याः सर्वान्त्य समयावधि । तत्र चार्य निकृष्टः स्यात्तादृक्कालानुभावतः || ४०॥ उत्सर्पिण्याद्यसमयेऽप्येवंरूपो भवत्ययम् । ततो द्वितीयसमये, यथाहानि विवर्द्धते ॥ ४१ ॥ अनन्तगुणवृद्ध्यैवं, वर्द्धमानः क्षणे क्षणे । उत्सर्पिण्यन्त्यसमये, सर्वोत्कृष्टः स जायते ॥ ४२ ॥ नन्वेवं शुक्लवर्णस्य, मूलोच्छेदः प्रसज्यते । प्रत्यक्षबाधितं तच्च, जात्यादौ शौक्ल्यदर्शनात् ॥ ४३ ॥ अत्रोच्यतेऽनन्तकस्यानन्तभेदाः स्मृतास्ततः । प्रक्षीयमाणपर्यायांशानामल्पमनन्तकम् ॥ ४४ ॥ मूलपर्यायांशराशेस्त्वनन्तकं महत्तमम् । ततोऽनुसमयेऽनन्तहान्याऽप्युच्छिद्यते न तत् ॥ ४५ ॥ यदि भव्येषु सिध्यत्सु, संसारेऽस्मिन् प्रतिक्षणम् । अनन्तेनापि कालेन, भव्योच्छेदो न जायते ॥ ४६ ॥ तदैषां सर्वजीवेभ्योऽनन्तघ्नानां कथं भवेत् ? । उत्कृष्टवर्णभा| गानामुच्छेदोऽसंख्यकालतः ॥ ४७ ॥ ननु भव्यास्तु संख्येया, एव सिद्ध्यन्त्यनुक्षणम् । एते त्वनन्ता हीयन्ते, तत्साम्यमनयोः कथम् ? ॥ ४८ ॥ सत्यं यद्यपि संख्येया, भव्याः सिध्यन्त्यनुक्षणम् । तथापि तत्सिद्धिकालोऽ१ कालस्योत्सर्पिणीरूपत्वात् स्यादेव वृद्धिराद्येऽपि समये, परं द्वयोः साम्यायेदं० २ अन्तरस्याविवक्षया समयेनाष्टोत्तरशतसिद्धेश्च० Jain Educationtional For Private & Personal Use Only प्रथमारक वर्णनम् १५ २० ॥४१९॥ २५ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy