________________
Jain Educati
धनुः पृथक्तवाङ्गः पतत्रिभिः । तेषां त्रिक्रोशमानानां वहनं संभवेत्कथम् ? ॥ २७ ॥ अत्रोच्यते - खगाङ्गमाने यत्प्रोक्तं, पृथक्त्वं धनुषां श्रुते । तत्रैकवचनं जातौ यथा व्रीहिः सुभिक्षकृत् ॥ २८ ॥ ततो धनुः पृथक्तवानां, बहुत्वमपि संभवेत् । विहङ्गानां देहमानं, ताकालायपेक्षया ॥ २९ ॥ ततश्च भूयोधनुः पृथक्तत्वाद्वैर्नरस्त्याद्यपेक्षया । सुवहानि तदङ्गानि खगैराचारकादिषु ॥ ३० ॥ एवं च सूत्रे एकवचननिर्देशेऽपि बहुवचन व्याख्यानं श्रीमलयगिरिपादैरपि श्रीवृहत्संग्रहणीवृत्तौ - " दसवाससहस्साई समयाई जाव सागरं ऊणं । दिवसमुहुरुपुहुत्ता आहारुस्सास सेसाणं ॥ १ ॥" इत्यस्या गाथाया व्याख्याने कृतमस्तीति सर्व सुखमित्याद्यधिकमुपा० श्री शान्तिचन्द्रीयजम्बू० प्र० वृ०, यद्वा-भारण्डपक्षिणां लोकख्याते भोहनादिवत् । तेषां खगानां तद्युग्मिदेहोद्वहनसंभवः ॥ ३१ ॥ एवं स्वरूपमुक्तं यत्प्रथमं प्रथमारके । क्रमात्ततो हीयमानमवसेयं प्रतिक्षणम् ॥ ३२ ॥ वर्णगन्ध र सस्पर्श संस्थानोचत्व पर्यवैः । तथा संहननायुष्कबलवीर्यादिपर्यवैः ॥ ३३ ॥ अनन्तगुणहान्याऽनुसमयं हीयमानकैः । संपूर्णाः स्युः सागराणां, चतस्रः कोटिकोटयः ॥ ३४ ॥ गुणशब्दञ्चात्र भागपर्यायस्तेन हीयते । अनन्तभागहान्यैव, वर्णादिः पर्यवजः ॥ ३५ ॥ इत्थमेवानुयोगद्वारवृत्तौ एकगुणकालकविचारे स्पष्टमाख्यातं ॥ अनन्तगुणानां हानिरेवं तत्पुरुषोऽत्र सः ।
यद्यपि पृथक्त्वशब्देन बहूनि पृथक्त्वानि गृह्यन्ते परं तानि गव्यूतादवगेव न परतः, संग्रहणीव्यारव्यानेऽपि दिवस पृथक्त्वादवगेव मुहूर्त्त पृथक्तत्वस्य ग्राह्यता, तत्त्वतस्तु अनेकैस्तैरुत्पाटने युग्मिनां न काप्यनुत्पत्तिः, कीटिकाभिः सर्पाकर्षणवत् ०
ational
For Private & Personal Use Only
१०
१२
w.jainelibrary.org