________________
लोकप्रकाशे काललोके २९ सर्गे
॥४१७॥
Jain Education
॥ ८ ॥ एवं च ते निरातङ्का, निर्बाधा निरुपद्रवाः । सुखानि भुञ्जते यावज्जीवं प्राचीनपुण्यतः ॥ ९ ॥ ते च षोढा पद्मगन्धा १, मृगगन्धा २ स्तथाऽममाः ३ । सहाच ४ तेजस्तलिनः ५, शनैश्चारिण ६ इत्यपि ॥ १० ॥ इमे जातिवाचकाः शब्दाः संज्ञाशब्देन रूढाः, यथा पूर्वमेकाकारापि मनुष्यजातिस्तृतीयारकप्रान्ते श्रीऋषभदेवेन उग्र भोगराजन्य क्षत्रियभेदैश्चतुर्धा कृता तथाऽत्राप्येवं षड्विधा सा खभावत एवास्तीति जीवाभिगमवृत्तौ जम्बूप्र० वृ० च पश्चमाङ्गषष्टशतकसप्तमोद्देश के तु पद्मसमगन्धयः मृगमद्गन्धयः ममकाररहिताः तेजश्च तलं चरूपं येषामस्तीति तेजस्तलिनः, सहिष्णवः समर्थाः, शनै:- मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीला इत्यन्वर्थता व्याख्याताऽस्तीति ॥ आयुषः शेषषण्मास्यां, बद्धाग्रिमभवायुषः । ते युग्ममेकं स्त्रीपुंसरूपं प्रसुवते जनाः ॥ ११ ॥ अहोरात्रांस्तदे कोनपञ्चाशतममी जनाः । रक्षन्ति तावता तौ च स्यातां संप्राप्तयौवनौ ॥ १२ ॥ एषामेकोनपञ्चाशद्दिनावधि च पालने । केचिदेवं पूर्वशास्त्रे, व्यवस्थां कोविदा विदुः ॥ १३ ॥ तथाहि - सुप्तोत्तानशया लिहन्ति दिवसान् खाङ्गुष्ठमार्यास्ततः को रिङ्खन्ति पदैस्ततः कलगिरो यान्ति स्वलद्भिस्ततः । स्थेयोभिश्च ततः कलागणभृतस्तारुण्यभोगोद्गताः, सप्ताहेन ततो भवन्ति सुहगादानेऽपि योग्यास्ततः ॥ १४ ॥ अयं भावः -- सप्ताहे प्रथमेऽङ्गुष्ठं, लिहन्त्युत्तानशायिनः । द्वितीये भुवि रिङ्खन्ति, व्यक्तवाचस्तृतीयके ॥ १५ ॥ पदैः स्खलद्भिर्गच्छन्ति, चतुर्थे पञ्चमे पुनः । स्थिरैः पदैस्ते गच्छन्ति, षष्ठे सर्वकलाविदः ॥ १६ ॥ सप्ताहे सप्तमे प्राप्तयौवनाः प्रभविष्णवः । स्युः स्त्रीभोगेऽपि केचिच्च, सम्यक्त्वग्रहणोचिताः ॥ १७ ॥ तथोक्तं जम्बू० प्र० वृ०
tional
For Private & Personal Use Only
प्रथमारक
वर्णनं
२०
२५
॥४१७॥
२८
ainelibrary.org