________________
चारित्रचर्या, जिनपतिपदभाजः प्राप्नुयुर्मोक्षलक्ष्मीम् ॥२८॥ (मालिनी)विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गश्चारुतमश्चतुर्दशतमोऽपूर्वः समाप्तः सुखम् ॥ ३२९ ॥ ग्रन्थाग्रं ३५९॥
॥ इति श्रीलोकप्रकाशे चतुर्दशः सर्गः समाप्तः॥
॥ अथ पञ्चदशः सर्गःप्रारभ्यते ॥ ___ उजिजीव जरासन्धजराजर्जरितं जवात् । यतो यदुवलं सोऽस्तु, पीयूषप्रतिमः श्रिये ॥ १॥ तिर्यग्लोकस्य । खरूपमथ किञ्चिद्वितन्यते । मया श्रीकीर्तिविजयार्णवप्राप्तश्रुतश्रिया ॥२॥ तत्र च-तिर्यग्लोकवर्तिनोऽपि, योजनानां शता मव । घर्मापिण्डस्थिता आद्यास्तद्वर्णनप्रसंगतः ॥३॥ उक्ता अधोलोक एव, तत्रस्था व्यन्तरा अपि । रत्नप्रभोपरितलं, वर्णयाम्यथ तत्र च ॥४॥ सन्ति तिर्यगसंख्येयमाना द्वीपपयोधयः । साोंद्धाराम्भोधियुग्मसमयैः प्रमिताश्च ते ॥५॥ तत्र जम्बूद्वीपनामा, प्रथमो मध्यतः स्थितः । लवणाब्धिस्तमावेष्ट्यावस्थितो वलयाकृतिः॥६॥ तमावेष्ट्य पुनीपो, धातकीखण्डसंज्ञकः । तमप्यावेष्ट्य परितः, स्थितः कालोदवारिधिः॥७॥ कक्षीकृत्य च कालोदं, पुष्करद्वीप आस्थितः। पुष्करद्वीपमावेष्ट्य, स्थितःपुष्करवारिधिः ॥८॥ एवमग्रेऽपि सकलाः, स्थिता द्वीपपयोधयः । परः पूर्व समावेष्ट्याब्धयो द्वीपसमाभिधाः॥९॥ ते
Onea928292020282929202
Jain Educatio
nal
For Private Personal Use Only
AMIw.jainelibrary.org