SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ .प्र. २३ विस्तृता । सर्वलोकस्याथ मानं, वक्ष्ये खण्डुकसङ्ख्यया ॥ १८ ॥ रज्वाः सर्वाधः स्थितायाः, खण्डुकेषु चतुर्ष्वपि । स्युरष्टाविंशतिस्तिर्यक् खण्डुकानीति तद्विदः ॥ १९ ॥ तत्रोयं त्रसनाडीस्थं, खण्डकानां चतुष्टयम् । द्वादश द्वादश ततः, परितः पार्श्वयोर्द्वयोः ॥ २० ॥ एवं सर्वत्रापि । षड्विंशतिर्द्वितीयस्या, रजवाः खण्डचतुष्टये । तृतीयस्याः खण्डकेषु चतुर्षु जिनसङ्ख्यया ॥ २१ ॥ नखसङ्ख्यानि तुर्याया, रजवास्तेषु चतुर्ष्वपि । पञ्चम्याः षोडश दश, षष्ठ्याः खण्डचतुष्टये ॥ २२ ॥ सप्तम्या अपि खण्डेषु चतुर्षु तचतुष्टयम् । अष्टम्याः प्राक् खण्डुके द्वे, चतुःखण्डुकविस्तृते ||२३|| अपरे द्वे खण्डुके च षट्खण्डुकसमातते । अष्टखण्डुकविस्तारं, नवम्या आद्यखण्डकम् ॥ २४ ॥ दशखण्डुकविस्तारं द्वितीयं द्वे ततः परे । द्वादशखण्डकव्यासे, स्युरित्थं नव रज्जवः ॥ २५ ॥ दशम्याः प्राच्यमर्द्ध च, षोडशखण्डकाततम् । परमर्द्ध तथैतस्या, नखखण्डुक विस्तृतम् ॥ २६ ॥ एकादश्याः पूर्वमर्द्धमपि तावत्समाततम् । द्वितीयमर्द्धमस्याश्च षोडशखण्डकाततम् ॥ २७ ॥ द्वादश्याः प्राक्तनं त्वर्द्ध, प्रोक्तं द्वादशखण्डुकम् । दशखण्डुकविस्तारमत्यमर्द्धमुदीरितम् ॥ २८ ॥ आद्यं खण्डं त्रयोदश्या, निर्दिष्टं तावदाततम् । अष्टखण्डुकविस्तीर्णमग्रिमं खण्डकत्रयम् ॥ २९ ॥ चतुर्द्दश्याः प्राक्तनेऽर्द्धे, खण्डुकानि षडायतिः । चत्वारि खण्डकान्यस्या, विस्तृतिः पश्चिमेऽर्द्धके ॥ ३० ॥ प्रत्येकमेषामङ्कानां स्वखवर्गविधानतः । भवेद्वर्गितलोकस्य, मितिः खण्डकसङ्ख्यया ॥ ३१ ॥ भवेत्स तद्गुणो वर्ग, इति वर्गस्य लक्षणम् । यथाऽष्टाविंशतः | सप्तशती चतुरशीतियुक् ॥ ३२ ॥ एवं सर्वत्र स्थापना विलोक्या। खण्डकानां शतान्यष्टावधिकानि च षोडश । Jain Educ International For Private & Personal Use Only ५ १० १४ w.jainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy