________________
कप्रकाशे त्रलोके
गः १२
१३२ ॥
Jain Educat
भवेद् ग्रैवेयकस्यान्ते, लोकान्ते च चतुर्दशी । धर्मोर्ध्वभागादूर्ध्वाधः, सप्त सप्तेति रजवः ॥ १४ ॥ अयं चावश्यक नियुक्तिचूर्णि संग्रहण्याद्यभिप्रायः, भगवत्यादौ च धर्माया अधोऽसंख्य योजनैलकमध्यमुक्तं, तदनुसारेण तत्र सप्त रज्जवः समाप्यन्ते, परं तदिह खल्पत्वान्न विवक्षितमिति संभाव्यते, योगशास्त्रवृत्तौ तु तत्र धरणीतलात्समभागात् सौधर्मेशानौ यावत्सार्द्धरज्जुः, सनत्कुमारमाहेन्द्रौ यावत्सार्द्धं रज्जुद्वयं ब्रह्मलोकेऽर्द्धचतुर्था रज्जवः, अच्युतं यावत्पञ्च रज्जवः, ग्रैवेयकं यावत् षट्, लोकान्तं यावत्सस रज्जव इत्युक्तमिति ज्ञेयं, जीवाभिगमवृत्तावपि 'बहुसमरमणिजाओ भूमिभागाओ उड्डुं चंदिमसूरियगगणणक्खत्ततारारूवाणं बहुओ जोयणकोडीओ यावत् दूरं उद्धं उप्पइत्ता एत्थणं सोहम्मीसाणे 'त्यादिसूत्रव्याख्याने "अत्र बह्वीर्योजनकोटीरूर्ध्व दूरमुत्प्लुत्य गत्वा, एतच सार्द्धरजूपलक्षणमित्युक्त" मिति ॥ लोकनालिस्तवेऽपि - " सोहम्मंमि दिवडा अड्डाइज्जा य रज्जु माहिंदे । चत्तारि सहस्सारे पणऽचुए सत्त लोगंते ॥ १ ॥" इत्युक्तमिति ॥
वाचतुर्थी भागो यस्तत्खण्डुकमिति स्मृतम् । विष्कम्भायामपिण्डस्तत्समानं घनहस्तवत् ॥ १५ ॥ षटूपञ्चाशत्खण्डुकोचा, सच्चतुःखण्डुकायता । त्रसनाडी भवेदत्र, त्रसजीवाश्रयावधिः ॥ १६ ॥ रेखाः पञ्चोर्ध्वगाः सप्तपञ्चाशत्तिर्यगायताः । आलिख्य कापि पट्टादौ, भावनीया तदाकृतिः ॥१७॥ सा चतुर्द्दशरज्जूच्चा, तथैकरज्जु१ प्रथमतृतीयकल्पयोर्मध्यभागस्योभयथा विभागे नासंगतिः, एवमप्रेऽपि । जीवाभिगमवृत्तिपाठोऽपि सौधर्मादिसीमादर्शकतया नासंगतः । १२ असंख्य कोटिकोटीयोजनमाना हि रज्जुः, खण्डुकमपि तथा, परं रज्जुचतुर्थांशरूपं.
emational
For Private & Personal Use Only
रज्जुमानम्
१५
२०
॥ १३२ ॥
२५
jainelibrary.org