________________
लोकप्रकाशे २६ ऊर्ध्वलोकसर्गे
॥ ३२३ ॥
८ खग्ग ९ उस १० कविडिमपाथडियचिंघम उडा" इति, अत्र मृगादयोऽङ्का - लाच्छनानि विटपेषु - विस्तारेषु येषां मुकुटानां तानि तथा, तानि प्रकटितचिह्नानि रत्नादिदीस्या प्रकाशितमृगादिलान्छनानि मुकुटानि येषां ते तथा इति, तत्त्वं तु सर्वविदो विदन्ति ॥ विवक्षवस्त्वमी अर्द्धमागध्या रम्यवर्णथा । भाषन्ते चतुरखान्तचमत्कारकिरा गिरा ॥ ४॥ तथाहुः - 'गो० ! देवाणं अद्धमागहाए भासाए भासंति' भगवतीपञ्चमशतकचतुर्थोद्देशके । लोके तु 'संस्कृतं स्वर्गिणां भाषेत्यादि । प्रत्येकमङ्गोपाङ्गेषु, रत्नाभरणभासुराः । अस्पृष्टका सश्वासादिविविधव्याधिवेदनाः ॥ ५ ॥ पुण्य नैपुण्यलावण्याः, सदावस्थायियौवनाः । अभङ्गकामरामार्द्रा, दिव्याङ्गनाकदाक्षिताः ॥ ६ ॥ दिव्याङ्गरागसुरभीकृतसर्वाङ्गशोभनाः । कामकेलिकलाभ्यासविलासहासवेदिनः ॥ ७ ॥ खभावतो निर्निमेष| विशेषललितेक्षणाः । अम्लानपुष्पदामानः, खैरं गगनगामिनः ॥ ८ ॥ मनश्चिन्तितमात्रेण, सर्वाभीष्टार्थसाधकाः । वचनातिगसामर्थ्यान्निग्रहानुग्रहक्षमाः ॥ ९ ॥ प्रयोजनविशेषेण, प्राप्ता अपि भुवस्तलम् । तिष्ठन्ति
१ आये पक्षे चिह्नानि द्वादश अन्त्ये दशेति भेदः, परं आद्ये 'उसक' इत्यत्रैवांकशब्ददर्शनात् विडिमस्याकार्थताऽयोग्या, न च | द्वादश वैमानिकानामिन्द्रा इति 'सिंह' शब्दोऽपपाठः २ अर्धमागधी भाषा अष्टादशदेश्यभाषामिति आबालागोपाङ्गनं बोद्धुं शक्या सर्वविषयवासिनां च पूर्वसंगतिकानां सुबोधा, प्रत्नदेशभाषापि शिलादिपुहिखिता दृश्यते, भाष्यकृद्भिरपि नानादेशीया भाषास्तथाविधा एव दर्शिताः, ३ कस्यचिद् भाषायां संस्कारकरणात् संस्कृतत्वं तेन नेयं मूलभाषा भवितुमर्हति, प्राकृता तुस्वाभाविकी, प्रकृतिः संस्कृतं, तत्र भवं प्राकृतमिति तु संस्कृतभवतयाऽभिप्रेतायाः लक्षणाख्यानं, व्याकरणसूत्रापेक्षया वैतत्, यत आख्यायते तत्र 'शेषं संस्कृतवदिति ।
Jain Educationational
For Private & Personal Use Only
चिह्नानि
भाषा च
१५
२०
२२
॥ ३२३ ॥
jainelibrary.org