SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे २६ ऊर्ध्व लोकसर्गे ॥ ३११ ॥ Jain Education क्षाणि स्युर्विमानकाः ॥ ७२ ॥ द्वात्रिंशत्तत्र लक्षाणि, सौधर्मस्य भवन्त्यमी । लक्षाण्यष्टाविंशतिश्च, स्युरीशानत्रिविष्टपे ॥ ७३ ॥ अथैतयोर्वासवयोः, संबन्धीनि पृथक पृथक । पाङ्क्तेयानि विमानानि, प्रोक्तान्येवं पुरातनैः ॥ ७४ ॥ तथाहुस्तपागच्छपतयः श्रीरत्नशेखरसूरयः श्राद्धविधिवृत्तौ - "दक्षिणस्यां विमाना ये, सौधर्मेशस्य तेऽखिलाः । उत्तरस्यां तु ते सर्वेऽपीशानेन्द्रस्य सत्तया ॥ ७५ ॥ पूर्वस्यामपरस्यां च वृत्ताः सर्वे विमानकाः । त्रयोदशापीन्द्रकाश्च, स्युः सौधर्मसुरेशितुः ॥ ७६ ॥ पूर्वापरदिशोख्यस्राचतुरस्राश्च ते पुनः । सौधमधिपतेरर्द्धा, अर्द्धा ईशानचक्रिणः ॥ ७७ ॥" संग्रहणीवृत्तावपि - "जे दाहिणेण इंदा दाहिणओ आवली भवे तेसिं । जे पुण उत्तर इंदा उत्तरओ आवली तेसिं ॥ ७८ ॥ पुत्रेण पच्छिमेण य सामन्ना आवली भवे तेसिं । जे पुण वहविमाणा मज्झिल्ला दाहिणिल्लाणं ॥ ७९ ॥ पुत्रेण पच्छिमेण य जे वहा तेऽवि दाहिणिल्लाणं । तंसचउरंगा पुण सामन्ना हुंति दुहंपि ॥ ८० ॥” प्रत्येकं त्वथ सौधर्मेशानयोर्देवलोकयोः । वृत्तादीनां पतिगानां संख्यैवं गदिता श्रुते ॥ ८१ ॥ सप्तविंशा सप्तशती, वृत्तानां प्रथमे भवेत् । त्रिकोणानामथ चतुर्नव | त्याढ्या चतुःशती ॥ ८२ ॥ चतुष्कोणानां च चतुःशत्येव षडशीतियुक् । शतान्येवं सप्तदश, सप्तोत्तराणि पङ्किगाः ॥ ८३ ॥ लक्षाण्येकत्रिंशदष्टानवतिश्च सहस्रकाः । द्वे शते त्रिनवत्याख्ये, इह पुष्पावकीर्णकाः ॥ ८४ ॥ एषां योगे तु पूर्वोक्ता, लक्षा द्वात्रिंशदेव ते । ईशानेऽप्यथ वृत्तानामष्टत्रिंशं शतद्वयम् ॥ ८५ ॥ त्रिचतुष्कोणसंख्या तु, सौधर्मवद्भवेदिह । अष्टादशोत्तराण्येवं शतानि द्वादशाखिलाः ॥ ८६ ॥ पुष्पावकीर्ण For Private & Personal Use Only वृत्तादिसंख्या २० २५ ॥ ३११ ॥ २८ ainelibrary.org
SR No.600117
Book TitleLokprakash Part_2
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages480
LanguageSanskrit
ClassificationManuscript
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy