________________
लो. प्र. ४६
गिर्यन्ते चतुश्चत्वारिंशदधिकान्यष्टपञ्चाशच्छतानि पृथुत्व" मिति संप्रदाय इति । वृहत्क्षेत्रसमासवृत्तौ तु एषां जघन्यं मानं नीलवन्निषधान्ते, शीताशीतोदोपान्ते चोत्कृष्टमुक्तं, न च कश्चिद्विशेषोऽभिहितः । अथ | देवोत्तरकुरुक्षेत्र सीमाविधायिनः । गजदन्ताकृतीन् शैलान्, चतुरश्चतुरो ब्रुवे ॥ ७३ ॥ तत्र देवकुरूणां यः, | प्रत्यग विद्युत्प्रभो गिरिः । तथोत्तरकुरूणां च, प्रत्यग् यो गन्धमादनः ॥ ७४ ॥ द्वावप्यायामत इमौ षट्पञ्चा शत्सहस्रकाः । लक्षास्तिस्रो योजनानां सप्तविंशं शतद्वयम् ॥ ७५ ॥ युग्मम् । अथ देवकुरूणां प्रागिरिः सौमनसोऽस्ति यः । तथोत्तरकुरूणां प्राकू, पर्वतो माल्यवांश्च यः ॥ ७६ ॥ एतावायामतः पञ्च लक्षा एकोनसप्ततिः । सहस्राणि योजनानां द्विशत्येकोनषष्टियुक् ॥ ७७ ॥ युग्मम् । इदं प्रमाणं पूर्वार्द्ध, भावनीयं विचक्षणैः । परार्द्धे क्षेत्रविस्तारव्यत्यासेन विपर्ययः ॥ ७८ ॥ पूर्वार्द्ध हि भवेत्क्षेत्रं, प्राच्यां विस्तीर्णमन्यतः । संकीर्णमपराद्धे तु, प्रत्यक् पृथ्वन्यतोऽन्यथा ॥ ७९ ॥ ततः पूर्वार्द्ध यदुक्तं, मानं प्राचीनशैलयोः । सौमनसमा|ल्यवतोस्तत्प्रतीचीनयोरिह ॥ ८० ॥ ज्ञेयं विद्युत्प्रभगन्धमादनाद्रयोः परार्द्धके । यत्प्रतीचीनयोस्तत्र, मानं तत्प्राच्ययोरिह || ८१ ॥ एते चत्वारोऽपि शैलाः खखवर्षधरान्तिके । सहस्रयोजनव्यासास्तनवो मेरुसन्निधौ ॥ ८२ ॥ शेषवर्णविभागादि, कूटवक्तव्यतादि च । जम्बूद्वीपगजदन्तगिरिवचिन्त्यतामिह ॥ ८३ ॥ अथ खखप्रतीचीनप्राचीनगजदन्तयोः । आयाममानयोर्योगे, धनुर्मानं कुरुद्वये ॥ ८४ ॥ नव लक्षा योजनानां सहस्राः
१ कालोदध्यासन्नभागापेक्षया एतदभिधाने न क्षतिः, लवणदिशि न विवक्षाऽस्येति ।
Jain Education national
For Private & Personal Use Only
१०
१६
jainelibrary.org