________________
व्याकुलात्मा स्यादुद्वमन्निव वातकी ॥ ९९ ॥ जगत्स्वाभाव्यत एव, शान्तेषु तेषु वायुषु । पुनः पातालकुम्भानां, जलं खस्थानमाश्रयेत् ॥ १०० ॥ जलेषु तेषु स्वस्थानं, प्राप्तेषु सुस्थितोदकः । स्वास्थ्यमापद्यतेऽम्भोधिर्वातकीव कृतौषधः ॥ १ ॥ मूर्च्छन्ति द्विरहोरात्रे, वाताः स्वस्थीभवन्ति च । ततो द्विः प्रत्यहोरात्रं, वर्द्धते हीयतेऽम्बुधिः ॥ २ ॥ तथाह जीवाभिगमः - "लवणे णं भंते । समुद्दे तीसाए मुहुत्ताणं कहखुत्तो अइरेगं वह वा हायइ वा ?, गो० ! दुक्खुत्तो अइरेगं वह वा हायइ वा” राकादर्शादितिथिषु, चातिरेकेण तेऽनिलाः । क्षोभं प्रयान्ति मूर्च्छन्ति, तथा जगत्स्वभावतः ॥ ३ ॥ ततश्च पूर्णिमाऽमादितिथिष्वतितमामयम् । वेल्या वर्द्धते वार्द्धिर्दशम्यादिषु नो तथा ॥ ४ ॥ लोकप्रधानुसारेण त्वेवमवोचं - "यथा यथेन्दोर्निजनन्दनस्य, कालक्रमप्रातकलाकलस्य । आश्लिष्यतेऽधिमृदुभिः करायैस्तथा तथोद्वेलमुपैति वृद्धिम् ॥ ५ ॥ दर्शे त्वपश्यन्नतिदर्शनीयं, निजाङ्गजं शीतकरं पयोधिः । विवृद्धवेलावलयच्छलेन, दुःखाग्निततो भुवि लोलुठीति ॥ ६ ॥” योजनानामुभयतो, विमुच्य लवणाम्बुधौ । सहस्रान् पञ्चनवतिं, मध्यदेशे शिखैधते ॥ ७ ॥ योजनानां सहस्राणि, दुशेयं पृथुलाऽभितः । चकास्ति वलयाकारा, जलभित्तिरिव स्थिरा ॥ ८ ॥ सहस्राणि षोडशोचा, समभूमिसमोदकात् । योजनानां सहस्रं च तत्रोद्वेधेन वारिधिः ॥ ९ ॥ शिखामिषाद्दधद्योगप योगीव वारिधिः । ध्यायतीव परब्रह्मा, जन्मजाड्योपशान्तये ॥ १० ॥ सुभगंकरणीं यद्वा हारिहारलतामिमाम् । श्यामोऽपि सुभगत्वेच्छुर्दधौ वार्द्धिः शिखोपधेः ॥ ११ ॥ जम्बुद्वीपोपाश्रयस्थान, मुनीनुत निनंसिषुः । कृतोत्तरासङ्गसङ्गः,
Jain Educacemational
For Private & Personal Use Only
१०
१४
ww.jainelibrary.org