________________
पेताऽमावस्या च सवासवा । सवासवायां राकायां, श्रावणेऽमा मघान्विता ॥ ७८ ॥ एवमन्यत्रापि भाव्यं, | इत्यमावास्यापूर्णिमायोगकीर्त्तनं ॥ यदा यदा यैर्नक्षत्रैरस्तं यातैः समाप्यते । अहोरात्रस्तानि वक्ष्ये, नामग्राहं यथाक्रमम् ॥ ७९ ॥ तदा समाप्यते ऋक्षै, रात्रिरप्येभिरेव यत् । उच्यते रात्रिनक्षत्राण्यप्यमून्येव तद्बुधैः ॥ ८० ॥ समापयति तत्राद्यानहोरात्रांश्चतुर्दश । नभोमास्युत्तराषाढा, सप्तैतान्यभिजित्तदा ॥ ८१ ॥ ततः श्रवणमप्यष्टावेकोना त्रिंशदित्यमूः । धनिष्ठा श्रावणस्यान्त्यमहोरात्रं ततो नयेत् ॥ ८२ ॥ नयेद्धनिष्ठाऽहोरात्रान्, भाद्रस्याद्यांश्चतुर्द्दश । ततः शतभिषक् सप्त, पूर्वाभद्रपदाष्ट च ॥ ८३ ॥ सौत्तरान्त्यमहोरात्रं, सैवेषस्य चतुर्द्दश । ततः पौष्णं पञ्चदश, चरममेकमश्विनी ॥ ८४ ॥ अश्विन्येव कार्त्तिकस्य, नयत्याद्यांश्चतुर्द्दश । अहो - रात्रान् पञ्चदश, भरण्येकं च कृत्तिकाः ॥ ८५ ॥ समापयन्ति ता एव, सहस्याद्यांश्चतुर्द्दश । ब्राह्मी पञ्चदशान्त्यं च मृगशीर्ष समापयेत् ॥ ८६ ॥ पौषस्यापि तदेवायानहोरात्रान् समापयेत् । चतुर्द्दश तथाऽऽर्द्राऽष्टौ ततः सप्त पुनर्वसू ॥ ८७ ॥ पुष्योऽस्यान्त्यमहोरात्रं, माघेऽप्याद्यांश्चतुर्द्दश । समापयेत् पश्चदशाश्लेषा तथान्तिमं मघाः ॥ ८८ ॥ पूरयन्ति फाल्गुनस्य, मघा आद्यांश्चतुर्द्दश । ततः पञ्चदश पूर्वाफाल्गुनी सोत्तराऽन्तिमम् ॥ ८९ ॥ उत्तराफाल्गुनी चैत्रे, नयत्याद्यांश्चतुर्दश । ततो हस्तः पञ्चदश, चित्राहोरात्रमन्तिमम् ॥ ९० ॥ अहो रात्रांस्ततश्चित्रा, नयेच्चतुर्द्दशादिमान् । वैशाखस्य पञ्चदश, स्वातिरन्त्यं विशाखिका ॥ ९९ ॥ समापयत्यथ ज्येष्ठे, विशाखाद्यांश्चतुर्द्दश । सप्तानुराधा ज्येष्ठाष्टौ मूलः पर्यन्तवर्त्तिनम् ॥ ९२ ॥ मूलः समापयत्याद्यानाषा
Jain Educatemational
For Private & Personal Use Only
१०
१४
www.jainelibrary.org