SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सिद्धय गुणागतिश्च अलोकस्खलिताः सिद्धा, लोकाग्रे च प्रतिष्ठिताः । इह संत्यज्य देहादि, स्थितास्तत्रैव शाश्वताः ॥ ७७॥ते ज्ञानावरणीयाद्यैर्मुक्ताः कर्मभिरष्टभिः । ज्ञानदर्शनचारित्राद्यनन्ताष्टकसंयुताः ॥७८॥ तथोक्तं गुणस्थान- क्रमारोहे-अनन्तं केवलज्ञानं, ज्ञानावरणसंक्षयात् । अनन्तं दर्शनं चापि, दर्शनावरणक्षयात् ॥ ७९ ॥ क्षायिके शुद्धसम्यक्त्व-चारित्रे मोह निग्रहात् । अनन्ते सुखवीर्ये च, वेद्यविनक्षयात् क्रमात् ॥ ८॥ आयुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः । नामगोत्रक्षयादेवा-मूतानन्ताऽवगाहना ॥८१॥ रोगमृत्युजराचर्ति-हीना अपुनरुद्भवाः । अभावात्कर्महेतूनां, दग्धे बीजे हि नाङ्करः ।। ८२॥ यावन्मानं नरक्षेत्रं, तावन्मानं शिवास्पदम् । यो यत्र म्रियते तत्रै- वोवं गत्वा स सिद्ध्यति ॥ ८३ ॥ उत्पत्योर्ध्वं समश्रेण्या, लोकान्तस्तैरलङ्कतः। यत्रैकस्तत्र तेऽनंता, निर्वाधाः सुखमासते ॥ ८४॥ तथोक्तं तत्त्वार्थभाष्ये-कृत्लकर्मक्षयादूदुर्व, निर्वाणमधिगच्छति । यथा दग्धेन्धनो वहि-निरुपादानसंततिः ॥ ८५ ॥ तदनन्तरमेवोर्द्धमालोकान्तात्स गच्छति । पूर्वप्रयोगाऽसङ्गत्वबंधच्छेदोद्धगौरवैः॥ ८६ ॥ कुलालचके दोलाया-मिषौ चापि यथेष्यते । पूर्वप्रयोगात्कर्मेह, तथा सिद्धगतिः स्मृता ।। ८७ ॥ मृल्लेपसङ्गनिर्मोक्षा-यथा दृष्टाऽप्खलाम्बुनः । कर्मसङ्गविनिर्मोक्षा-त्तथा सिद्धगतिः स्मृता ॥८८॥ एरण्डयन्त्रपेडासु, बन्धच्छेदाद्यथा गतिः। कर्मबन्धनविच्छेदात्, सिद्धस्यापि तथेष्यते ॥८९॥ व्याघ्रपादबीजबन्धनच्छेदाद्यनवन्धनच्छेदात्पेडायन्धनच्छेदाच गतिदृष्टा मिञाकाष्टपेडापुटानामेवं कर्मबन्धविच्छेदात्सिद्धस्य गतिरिति भावः ॥-ऊर्द्धगौरवधर्माणो, 299232328020902 को.प्र.३ Jain Educatio n al For Private & Personal Use Only airbrany
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy