SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ भ्यजातयः । उग्रभोगादिकुलजाः, कुलार्या स्ते प्रकीर्तिताः ॥ ३६ ॥ कर्मार्या वास्त्रिकाः सौत्रिकाद्याः कार्पासिकादयः । शिल्पार्यास्तु तुन्नकारास्तंतुवायाद्योऽपि च ॥ ३७ ॥ भाषार्या येऽर्द्धमागध्या, भाषन्ते भाषयाऽत्र ते । ज्ञानदर्शनचारित्रार्यास्तु ज्ञानादिभिर्युताः ॥ ३८ ॥ अत्र भूयान् विस्तरोऽस्ति स तु प्रज्ञापनादितः । विज्ञेयो विबुधैर्नेह, प्रोच्यते विस्तृतेर्भयात् ॥ ३९ ॥ इति भेदाः ॥ एषां तिर्यग्नरक्षेत्रावधि जन्मात्ययादिकम् । योजनानां दशशतीमधो न परतः पुनः ॥ ४० ॥ इति स्थानं ॥ एषां पर्याप्तयः सर्वाः, पर्याप्तानां प्रकीर्त्तिताः । यथासंभवमन्येषां प्राणाश्च निखिला अपि ॥ ४१ ॥ इति पर्याप्तयः ॥ चतुर्दश योनिलक्षा, एषां संमूच्छिमैः सह । द्वादश स्युः कुलकोट्यो, योनिर्विवृतसंवृता ॥ ४२ ॥ मिश्रा सचित्ताचित्तत्वात् शीतोष्णत्वाच्च सा भवेत् । वंशीपत्रा तथा शङ्खावर्त्ता कूर्मोनताऽपि च ॥ ४३ ॥ पल्योपमानां त्रितयमुत्कृष्टैषां भवस्थितिः । सा युग्मिनां परेषां तु, पूर्वकोटिः प्रकीर्तिता ॥ ४४ ॥ जघन्या नरगर्भस्य, स्थितिरान्तर्मुहूर्तिकी । उत्कृष्टा द्वादशाब्दानि, विज्ञेया मध्यमाऽपरा ॥ ४५ ॥ पित्तादिदूषितः पापी, कार्मणादिवशोऽथवा । द्वादशाब्दानि गर्भान्तस्तिष्ठेत् सिद्धपादिवत् ॥ ४६ ॥ चतुवैिशतिवर्षा च, गर्भकायस्थितिर्नृणाम् । उत्कृष्टस्थितिगर्भस्य, मृत्वोत्पन्नस्य तत्र सा ॥ ४७ ॥ स्थित्वा द्वादश वर्षाणि, गर्भे कश्चिन्महाऽघवान् । विपद्योत्पद्य तत्रैव, तावतिष्ठत्यसौ घतः ॥ ४८ ॥ इति भवस्थितिः ॥ इत्यर्थतो भगवतीशतक २ पञ्चमोद्देशके ॥ पूर्वाणां कोटयः सप्त, तथा पल्योपमन्त्रयम् । भाव्या गर्भजतिर्थग्वदेषां कार्यस्थितिर्गुरुः ॥ ४९ ॥ इति काय - Jain Educaticnational For Private & Personal Use Only १० १४ w.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy