________________
IS स्युर्वायुकायिकाः । इदं प्रज्ञापनावृत्तावाद्याङ्गविवृत्तौ विदं ॥ २२॥ सुसंवर्तितलोकैकप्रतरासंख्यभागकैः ।।
प्रदेशैः प्रमिताः स्थूलापर्याप्तक्ष्माम्बुवायवः ॥ २३ ॥ क्षेत्रपल्योपमासंख्यभागप्रदेशसंमिताः। पर्याप्ता बादरहविर्भुजः प्रोक्ताः पुरातनः ॥२४॥ संवर्तितचतुरस्रीकृतलोकश्रेण्यसंख्यभागगतः। वियदंशैः पर्याप्तास्तुल्याः प्रत्येकतरुजीवाः ॥ २५ ॥ संवर्तितचतुरस्रीकृतस्य लोकस्य यः प्रतर एकः। तदसंख्यभागखांशप्रमिताः पर्यासवादरनिगोदाः ॥२६॥ (आर्ये)। अतःपरं तु ग्रन्थदयेऽपि तुल्यमेव ॥ बादराः स्थावराः सर्वेऽप्येते पर्याप्तकाः पुनः । स्युः प्रत्येकमसंख्येयलोकाभ्रांशमिताः खलु ॥ २७ ॥ लोकमानाभ्रखण्डानामनन्तानां प्रदेशकैः। तुल्याः स्थूलानन्तकायजीवाः प्रोक्ता जिनेश्वरैः ॥ २८॥ इति मानं ॥ पर्याप्ताः बादराः सर्वस्तोकाः पावककायिकाः। असंख्येयगुणास्तेभ्यः, प्रत्येकधरणीरुहः॥२९॥ असंख्येयगुणास्तेभ्यः, स्युर्यादरनिगोदकाः। तेभ्यो भूकायिकास्तेभ्यश्चापस्तेभ्यश्च वायवः ॥ ३०॥ तेभ्योऽनन्तगुणाः स्थूलाः, स्युर्वनस्पतिकायिकाः । सामान्यतो बादराश्चाधिकाः पर्याप्तकास्ततः॥ ३१॥ खखजातीयपर्याप्तकेभ्योऽसंख्यगुणाधिकाः । अपर्याप्ताः खजातीयदेहिनः परिकीर्तिताः ॥३२॥ यद्वादरस्य पर्याप्तकस्यैकैकस्य निश्रया । असंख्यया अपर्याप्तास्तज्जातीया भवन्ति हि ॥३३॥ तथोक्तं प्रज्ञापनायां-"पजत्तगनिस्साए अपज्जतगा वकमंति, जत्थ एगो तत्थ नियमा असंखेजा" इत्यल्पबहुत्वं ॥ सर्वस्तोका दक्षिणस्यां, भूकाया दिगपेक्षया । उदक प्राक् च ततः प्रत्यक्, क्रमाविशेषतोऽधिकाः॥ ३४॥ उपपत्तिश्चात्र-यस्यां दिशि घनं तस्यां, बहवः क्षितिकायिकाः। यस्यां च शुषिरं
220002020009290
TO
Jain Education
For Private Personel Use Only
hinelibrary.org