SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ भी भगवती अवधि .. यस्मादसंख्येयप्रदेशिको लोकः, जीवस्स कियन्त ? तावन्त एव, कथम् ? यस्माद् जीवः चासंख्येयप्रदेशिकः, सर्व एव लोकं व्याप्यावतिष्ठते समुद्घातकाले केवली मनुष्याणां जीवपदेशः ज्ञानावरणीयप्रदेशैवेष्टितः स्यात् कथं केवलिनं प्रतीत्य दर्शनावरणीय मोहनीयान्तरायिकेषु चतुषु अपि भवेद्वेष्टितः । यदा जीव प्रदेशः वेष्टितस्तदा अष्टानामपि कर्मणां स्यात् सिद्धान् प्रतीत्य, तेऽपि हि जीवा मनुष्याणां कर्मचतुष्टयेन नियमाद्वेष्टिताः, वेदनीयायुष्कनामगोत्राणां यस्य वेदनीयं तस्य ज्ञानावरणीयं स्यात, केवलिनं प्रतीत्य, यस्य ज्ञानावरणीयं तस्य मोहनीयं स्यात् , क्व एक प्रतीत्य क्षपको हि यावत् समयद्वयेन केवल नोत्पादयति तावज्ज्ञानावरणीयबन्धकः तस्य च मोहनीयं स्यात् अन्येषां ज्ञानावरणीयबन्धकः नास्ति इति स्यात् । यदा यस्यायुस्तस्य ज्ञानावरणीयम्, आयुः केवलिनोऽपि अस्ति तस्य च ज्ञानावरणीयं नास्ति, शेषाणामस्तीति स्यात् । एवं नामगोत्रे यस्य वेदनीयं तस्य मोहनीयं स्यात् , केवलिनं प्रतीत्य । यस्य वेदनीयं तस्यायुनियमाद्यथा केवलिनः । अन्येषां च एवं नामगोत्रे | यस्य वेदनीयं तस्यान्तरायं स्यात , क्व ? केवलिनो नास्ति अन्येषामस्तीति स्यात् । यस्यायुर्नामगोत्राणि तस्य मोहनीयं स्यात् केवलिनः सत्स्वप्येतेषु नास्ति अन्येषां चास्ति । ॥ इति अष्टमशते दशमोद्देशकः ॥ ॥ समाप्तं चाष्टमशतकम् ॥ ॥११२॥ Jan Education Intema ! For Private Personel Use Only www.jainelibrary.org
SR No.600115
Book TitleBhagvatisutra Avachuri
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages248
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy