________________
तथा - प्रतिक्रमणसूत्रमध्ये श्राविकाः 'निच्चं परदारगमनविरइओ' इति पाठ कथयन्त्युत 'निच्चं परपुरिसगमणविरइओ' इति वेति प्रश्नोत्तरं प्रतिक्रमणसूत्रपाठस्तु श्राद्धश्राविकाणां सदृश एव ज्ञायते येनैतद्वृत्तौ स्त्रियं प्रति परपुरुषवर्जनमुपलक्षणात् द्रष्टव्यमिति व्याख्यातमस्तीति ॥ ३५ ॥
तथा -- कालग्रहणादिपूर्वकमुत्तराध्ययनादि गणनीयमित्यादि सामाचारहीनत्वेन यतीनामवसन्नत्य केचन पृच्छन्ति तत्र किमु त्तरमिति प्रश्नोऽत्रोत्तरं - कालग्रहणादिपूर्वकमुत्तराध्ययनादि गणनीयमित्यादिसामाचारीहीनेत्वऽपि वसतिशेोधनादिपुरस्सरं सुविहिताचरितं
गणनमपि सामाचारीष्वेवेति कथं तेषामवसन्नत्वमिति ॥ ३६ ॥
तथा — एकादशप्रतिमायां श्राद्धः सामायिके ' जाव नियमं वा ' ' जाव पडिमं वा ' कथमुच्चरते ?, तथा पञ्चम्यादिप्रतिमासु अष्टम्यादितिथिषु रात्रौ कायोत्सर्गकरणवदेकादश्यां प्रतिमायां कायोत्सर्गे करोति नवा ? इति प्रश्नोऽत्रोत्तरं - एकादशप्रतिमायां श्रावकेण सामायिके 'जाव पडिमं पज्जुवासामी 'ति पाठो भणनीयः, तथा कायोत्सर्गेऽपि करणीयः ॥ ३७ ॥
तथा -- आचार्याणामुपाध्यायानामधमाचार्याणां साधुसाध्वीश्रावकश्राविकाणां वा दुष्प्रसहं यावदुष्पमायां या सङ्ख्या दीपालिकाकल्पादिषूक्ताऽस्ति सा कया विवक्षया ?, पञ्चमारके दिनानि स्तोकानि जायन्ते सङ्ख्या च बहुतीति लोकाः पृच्छन्ति, अत्र किमुत्तरं दीयत इति ? प्रश्नोऽत्रोत्तरं - अत्र भरतक्षेत्रे दुष्पमाया अल्पकालत्वेऽपि भूमेः प्राचुर्याहुषु साध्वादिसम्भनेन दीपालिकाकल्पाद्युक्तयुग प्रधानादिसङ्ख्यापूर्तिः सङ्गच्छते, न त्वात्मज्ञातसाध्वादिनेति बोध्यम् ॥ ३८ ॥
Jain Education International
For Private & Personal Use Only
jainelibrary.org