SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ तथा-कुलकोटिमध्ये एककुलस्य कियन्तः पुरुषाः सन्ति ! उत्तममध्यमजघन्यभेदभाजश्च कियन्त इति प्रश्नोऽप्रोत्तरं-अष्टाधिकशतपुरुषा एककुलमध्ये भवन्तीति प्रसिद्धिरस्ति, परमुत्तममध्यमजघन्यभेदा ज्ञाता न सन्ति, तथा एतस्य व्यक्ताक्षराणि शास्त्रे न दृष्टानीति ॥ ४१७॥ तथा-विशालानगर्या श्रीमुनिसुव्रतस्वामिस्तूपपातककूलवालको भव्योऽभव्यो वा इति प्रश्नोत्रोत्तरं-अस्यां चतुर्वीशतौ सप्ताभन्याः | कथिताः सन्ति, तस्माद्भव्यः सम्भाव्यते, परं व्यवहारतो महाकर्मा निश्चयतस्तु केवली जानातीति ॥ ४१८॥ तथा-गोप्रभृतिजीवमोचनाय द्रव्यलिङ्गिनां द्रव्यं ग्रहीतुं कल्पते न वा इति प्रश्नोत्रोत्तरं-ज्ञानादिसम्बन्धि द्रव्यं न भवति तदा | गृह्यते निषेधो ज्ञातो नास्तीति ॥ ४१९॥ तथा-यवनधीवरादयः श्राद्धा जातास्तेषां तीर्थकृत्प्रतिमापूजने लाभो न वा इति प्रश्नोत्रोचरं-यदि शरीरस्य तथा वस्त्रादीनां च पावित्र्यं । स्यात्तदा निषेधो ज्ञातो नास्ति, परं तेषां प्रतिमापूजने लाम एव ज्ञातोऽस्तीति ॥ ४७० ॥ तथा-शिष्यस्तादृक् चारित्रं न पालयति तदूषणं गुरोर्लगति न वा इति प्रश्नोऽत्रोत्तरं-यदि गुरुमोहेन न निवारयति तदा गुरोः पातकं लगति, अन्यथा तु न इति ॥ ४७१ ॥ तथा-सव्वें संसारिणो जीवाः परलोकं ब्रजम्तः सिद्धशिलां स्पृशन्ति न वा इति प्रश्नोत्रोचरं-सर्वजीवानां सिद्धशिलास्पर्शनं ज्ञातं , | नास्ति, यतः शास्त्रे द्विविधा गतिः प्रोक्ताऽस्ति, एका ऋजुर्द्वितीया विग्रहगतिः, तत्र ऋजुगतिः-सरलगतिविग्रहगतिः-वक्रगतिरिति ॥ ४७१॥ तथा--चक्रवर्तिनस्तिमिश्रागुहाद्वारोद्घाटने ज्वाला निसरन्ति न वा ! यदि न तर्हि कणिकस्य कथं निस्ससारेति प्रश्नोत्रोत्तर-जम्बूद्धीपप्रज्ञप्त्यादिषूक्तमस्ति यच्चक्रवर्तिनः सेनानी नरो द्वारमुद्घाट्यति ज्वाला च न निस्सरति, कूणिकस्य तु द्वाराणि नोद्घाटितानि, तार्ह ज्वाला कुतो For Private Personal Use Only
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy