________________
रत्नत्रितयशालिनः । उन्मीलेदचिराद्य, सद्विवेकतरोः फलम् ॥ २ ॥ कुल्माषान् साधवे दत्त्वा, मूलदेवः पपाठ । च । धन्यास्ते खलु येषां स्युः, कुल्माषाः साधुपारणे ॥ ३ ॥ तस्य भावनया हृष्टा, बभाषे व्योम्नि देवता । अर्धश्लोकेन याचख, भद्र! किं ते प्रदीयताम् ?॥४॥प्रार्थयामास सद्यस्ता, मूलदेवोऽपि देवताम् । गणिका देव-1 दत्वेभ-सहस्रं राज्यमस्तु मे ॥ ५॥ एवमस्त्विति देव्यूचे, मूलदेवोऽपि तं मुनिम् । वन्दित्वाऽथ ग्राममध्ये, मिक्षित्वा बुभुजे खयम् ॥ ६ ॥ मार्ग क्रामन् क्रमेणासौ, प्राप बेन्नातटं पुरम् । सुष्वाप पान्थशालायां, निद्रा
सुखमवाप च ॥ ७ ॥ यामिन्याः पश्चिमे यामे, स सुप्तः स्वप्नमैक्षत । यत्पूर्णमण्डलश्चन्द्रः, प्रविवेश मुखं मम । Man८॥ तमेव स्वप्नमद्राक्षीत्, कोऽपि कार्पटिकस्तदा । अन्यकार्पटिकानां च, प्रबुद्धस्तमचीकथत् ॥ ९॥
तेषु कार्पटिकेष्वेकः, स्वप्नमेवं व्यचारयत् । अचिरेण लप्स्यसे त्वं, सखण्डं घृतमण्डकम् ॥१०॥ हृष्टः कार्पटिकः सोऽभूदेवं भूयादिति ब्रुवन् । जायेत बदरेणापि, शृगालस्य महोत्सवः ॥ ११ ॥ स्वप्नं नाचीकथत्तेषा-1 नामज्ञानां धूर्तराड् निजम् । मूर्खा हि दर्शिते रत्ने, दृषत्खण्डं प्रचक्षते ॥ १२ ॥ मण्डकं कार्पटिप्रोक्तं, गृहाच्छा-INT मदनपर्वणि । तदा कार्पटिकः प्राप, ताहविचारभावतः ॥ १३ ॥ यतः-"प्रायेण फलति स्वप्नो, विचारस्या
JainEducaE
For Private
Personal Use Only
Sirriainelibrary.org