________________
मुष्णकिरणं किमु वारयामि ?, कीनाशमाशु कणशः किमु चूर्णयामि ? ॥ २ ॥ इत्यादि जल्पनं हनुमतो ज्ञातव्यं । बहुशः। ततः पवनञ्जयः वपुत्राय हनुमते राज्यं दत्त्वा दीक्षां गृहीत्वा सर्वकर्मक्षयं कृत्वा मुक्तिं गतः । अञ्जनासुन्दर्यपि मुनिचन्द्रसूरिपाघे संयमग्रहणात् क्षीणकर्मणी मुक्तिं गता। हनुमानपि चिरकालं पृथिवीं पालयन् श्रीशत्रुञ्जयादितीर्थेषु यात्रां चकार । पुनः स्वपुत्रं राज्ये निवेश्य श्रीदेवसूरिगुरुपार्श्वे दीक्षा जग्राह हनुमान् । क्रमादुनमहातपः कुर्वाणः शत्रुञ्जये गतः। तत्र केवलज्ञानमवाप्य मुक्तिं ययौ हनुमान् । इति अञ्जनासुन्दरीकथा समाप्ता ॥१४॥
__ अत्र केनापि हेतुना सिरिदेवीकहा नत्थि ॥ १५ ॥ N मनसा वचसाऽङ्गेन, शुद्धं शीलं प्रपालयेत् । ज्येष्ठेव लभते प्राणी, कल्याणसुखसम्पदम् ॥१॥
तथाहि-कुण्डग्रामे सिद्धार्थभूपतिायाध्वना पृथ्वीं पालयामास । तस्य प्रिया त्रिशलाहा राज्ञी सच्छीलशालिनी बभूव । तयोः सत्स्वप्नसूचितः शुभे वासरे पुत्रोऽभवत् । तस्य जन्मोत्सवं कृत्वा नन्दिवईन इति
नाम दत्तम् । क्रमावर्धमानः कुमारः शस्त्रशास्त्रकलाः पण्डितोपान्ते पाठितः। इतः कालान्तरे चतुर्दशवप्नसूचितः । IN पुत्रोऽजनि । तत इन्द्रादिभिर्जन्ममहः कृतः। मातापितृभ्यां वईमान इति नाम दत्तम् । इतो विशालायां पुर्या ।
JainEducation
For Private
Personel Use Only
Hainelibrary.org