________________
॥ श्रीभरतेश्वर वृत्तिः॥ १८५ ॥
Jain Education
66
| ततस्तया दचे ते द्वे विद्ये गृहीत्वा प्रद्युम्नो विधिना साधयामास । ततो विद्याभृत् प्रियाऽऽचष्ट - भोगान् मया सहाधुना प्रद्युम्न ! भुंक्ष्व स्ववाचां पालय । यतः- “ अलसायंतेण वि सज्जणेण, जे अक्खरा समुल्लविआ । ते पत्थरटंकुक्की - रिअव्व, न हु अन्नहा हुंति ॥ १ ॥ " यतः - " अक्खाणसणी कमाण मोहणी, तह वयाण बंभवयं । गुत्तीण य मणगुत्ती, चउरो दुःखेण जिप्पंति ॥ १ ॥ " ततः प्रद्युम्नो जगाद - त्वं मम माताऽसि मात्रा समं यस्य पतिसम्बन्धो भवति तस्य नूनमधो गतिः स्यात् । भो मातस्त्वमेवं किं वक्षि । यतः वरमग्गमि पवेशो• ॥१॥ " इति जल्पन् प्रद्युम्नः | पुराद् बहिरगात् । तदा नखैः स्वदेहं निकृत्य दीर्घं कनकमाला कलकलं कृत्वाऽभ्यधात् - भो भो लोका ! धावत धावत । अयं दुष्टः प्रद्युम्नो भोगसुखार्थी मां विदार्यैवं गतः किमिदं किमिदमिति जल्पन्तः कनकमालापुत्रास्तत्राययुः । | ज्ञात्वा प्रद्युम्नचेष्टितं मातुः पार्श्वे ते पुत्रा रोषारुणा योधाः प्रद्युम्नं हन्तुं लग्नाः प्रद्युम्नो विद्याबलेन तान् जघान । हतान् सुतान् ज्ञात्वा संवरः पिता युद्धार्थ निर्ययौ । तमपि युध्यमानं संवरं विद्यया स्तब्धवान् सः । ततः संवरो - जगौ - भो महानुभाग ! त्वं पुत्रोऽसि मम किमेवं कदर्थयसि ? मां मुत्कलं मुञ्च यत्त्वं जल्पसि तत्करोम्यहम् । तत| स्तत्क्षणात संवरो मुत्कलः कृतः । ततः प्रद्युम्नः पितुः पार्श्वे गत्वा प्रणामं कृत्वा च जगौ - इयं तव पत्नी वर्या न
1
11
ational
For Private & Personal Use Only
श्रीमद्युत कुमार
चारत्रम् ।
॥ १८५ ॥
www.jainelibrary.org