SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्गप्रदः ॥१॥ अहिंसासत्यमस्तेयं, त्यागो मैथुनवर्जनम् । एतेषु पञ्चसूक्तेषु, सर्वे में धर्माः प्रतिष्ठिताः ॥ २॥ प्राज्यानि राज्यानि सुभोजनानि, सोभाग्यमारोग्यसुयोग्यवार्ता । रामा रमा रम्ययशोविलासाः, स्वर्गापवर्गों प्रभवन्ति धर्मात् ॥ ३ ॥ दारिद्र्यमुद्रा परकर्मकृत्वा, दुष्टस्वभावासुखसङ्गतानि । एकत्वरङ्कत्वकदन्नभो-४|| ज्य-कुरूपमुख्यानि भवन्त्यधर्मात् ॥ ४॥ नित्यं शुद्धान्नपानदानेन प्रतिलाभयन्ति ते तत्रत्या लोकाः क्रमात्तैर्यतिभिस्तादृशैस्ते बहवो जना जिनधर्म ग्राहिताः जिनभवनादिषु स्वां श्रियं व्ययन्तिस्म । तैः साधुभिस्ते अनार्यदेशवास्तव्यजनाः श्रावकीकृताः सन्तो जल्पन्तिस्म । भवतां को गुरुरस्ति । तैरुक्तमस्माकं गुरुः श्रीसुहस्तिमूरिः।क्रमासंप्रतिना । साधुविहारमनार्यदेशेषु जायमानं श्रुत्वा हृष्टम् । ततोऽनेके साधवस्तेषु तेषु अनार्यदेशेषु गुरुभिर्विहारिताः । अग्रेतना ले ये साधवस्तत्र गतास्तेऽपि गृहीतं संयम न मुमुचुः । यतः- अद्यापि नोज्झति हरः किल कालकूट, कूर्मों बिभर्ति धरणी खलु पृष्ठभागे । वारांनिधिर्वहति दुर्वहवाडवाग्नि-मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥१॥" अन्येयुः श्रीगुरुभिरुक्तं-भो संप्रतिभूप! विशेषतो दानमनर्गलं दीयते । दानं विना भोगो न भवति । चतुर्धा धर्मः श्रीजिनैरुक्तः । तत्र दानधर्मो मुख्यतया श्रीवीतरागैरपि प्रोक्तः । यतो दानं विना अपरे धर्माः कर्तुं न शक्यन्ते । यतः “निखि Jan Education For Private Personel Use Only
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy