SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते- श्वर वृत्ति ॥१४९॥ कथानकम्। खट्वां गृहे नीत्वा रत्नानि बहिः कर्षयित्वा जनकायार्पयामास धन्यः । ततः श्रोष्ठना धन्यः सम्मानितः । ततो श्रीधन्यस्यधन्यस्य कीर्तिः प्रससार। ततस्तद्भातृणां तदा तीव्रमत्सरोऽभूत् । ततस्ते सहोदरा ईर्ष्यालवस्तं हन्तुमिच्छन्ति सदा । तहर्तृचेष्टितं ज्ञात्वा भ्रातृजाया देवराय न्यवेदयन् प्रीत्या, अथ सोऽवक्-नापराद्धं मया किञ्चिदमीषां तदमी कथं द्रुह्यन्ति। ता अप्यूचुः-वत्सेदृक्षाः खलाः खलु । यतः-" नाकारणे रुषां सङ्ख्याः , सङ्ख्याताः कारणाः क्रुधः । कारणेऽपि न । कुप्यन्ति, ये ते जगति पञ्चषाः॥१॥" ततो धन्योऽध्यासीत्-मयाऽत्र न स्थेयं विनोत्पत्तेः मां दृष्ट्वा भ्रातृणां दुःखं । भवति । यतः- परपीडां न कुर्वन्ति, महान्तो हि कदाचन । तेन नात्राधुना स्थेयं, मया क्षणमपि स्फुटम् ॥१॥" ध्यात्वेति निशि छन्नं धन्य एकाकी असहायः स्वपुरान्निस्ससार । धन्यः ततो ग्रामपुराकरादिसंकुलां विपुलां बभ्राम। वर्याकारः पुमानिति ध्यात्वा क्षेत्रशेन भोजनार्थ न्यमन्त्र्यत । आसिनो जेमितुं यावद्धन्यः तावत् कुटुम्बिप्रिया भक्षाही समागात् । क्षेत्रेशेनोक्तं-अमुमतिथि भोजय, कोऽप्ययं धन्यः पुमान् अस्ति । यतः-“ अपूजितोऽतिथियस्य, गृहाद्याति विनिश्चितम् । गच्छन्ति विमुखास्तस्य, पितरः सह दैवतैः ॥ १॥" परमान्नं तया तस्मै ॥ १४९ ॥ परिवेषितं तदाऽकस्मात कौटुम्बिकस्य हलं खेटयतो हलं कलशकण्ठेऽलगत् । ततः स्वर्णपूर्ण कुम्भं । 10 in Edualan Me! For Private & Personel Use Only Tww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy