________________
वृद्धत्वेऽनागतेऽपि सुतं राज्ये न्यस्य व्रतं जगृहुः । मम तु वाईक्ये समागतेऽपि न वैराग्यं जातमहमधम एव ।। यतः--" नाधमानां जरा स्वान्ते, मध्यानामेति मईतः । स्वान्तान्मूईनि धन्याना-मारोहति सतां पुनः ॥ १॥ लज्जयाऽहं तया हन्त, विषीदे वार्डकं कियत् । अखंडकुलधर्माणां, मृत्युः सोऽपि महोत्सवः ॥ २ ॥ मनसि । जरसाऽभिभूता, जायन्ते यौवनेऽपि विद्वांसः । मन्दधियः पुनरितरे, भवन्ति वृद्धत्वयोगेऽपि ॥ ३ ॥” इत्याद्युक्त्वा शीर्णतृणमिव राज्यं त्यक्त्वा प्रसन्नचन्द्रं बालमपि तदा राजा स्वराज्येऽभ्यषिश्चत् । वनाय सोमचन्द्रो यावच्चचाल । तावद्यारिण्यपि पत्नी वारिताऽपि तेन राज्ञा समं धाच्या साईमचलत् । सोमचन्द्रो वने गत्वा तापसव्रतं जग्राह । तस्यैवंविधा व्रतश्रीरातीत् । यतः---"उटजः सौधमिङ्गद्या-स्तैलैर्माणिक्यदीपकाः । श्रद्धैवान्तःपुरं श्रेष्ठ, प्रीतिः पक्षिमृगाश्रया ॥१॥ सर्वासनजयो योग्या, चमूः शमदमादयः । फुलदाः फलदाः सूदा, निग्राह्याश्वान्तरारयः ॥ २ ॥ क्षणः परस्य पुंसो वा. ध्यानं पाङ्गुण्यचिन्तनम् । सोमचन्द्रस्य राजर्षेः, प्रव्रज्या राज्यवह्वभौ ॥३॥" धारिण्या तापसत्रतग्रहणात् प्राक् संपन्नगर्भया पुत्रो जनितः । प्रसवरोगेण धारिणी दिवं ययौ ।। वल्कलैः प्रावृतं बालं प्रति प्राह तापसः । वत्स ! तव शैशवेऽपि तव वल्कलचीरिताऽस्ति, तेन वल्कलचीरीति तव
For Private Personal use only
www.jainelibrary.org