________________
विद्युदंडतुलं धनं गिरिनदीकल्लोलवच्चञ्चलम् । स्नेहं कुञ्जरकर्णतालचपलं देहं च रोगोकुलं ज्ञात्वा भव्यजनाः सदा । कुरुत भो धर्म महानिश्चलम् ॥१॥ दारिद्रनाशनं दानं, शीलं दुर्गतिनाशनम् । अज्ञाननाशिनी प्रज्ञा, भावना भवनाशिनी ॥२॥" एवं गुरुपार्श्वे धर्म श्रुत्वा प्राप्तगृहिधर्मा कुमारिका निर्नामिका सा सम्प्रति वर्तते । साम्प्रतं चानशनं सा जग्राह, ततस्तत्र गत्वा स्वरूपं तस्या दर्शय कथय च, यथा सा निर्नामिका त्वदनुरागिणी भूत्वा मृत्वा च | स्वयम्प्रभव प्रिया उत्पद्यतेऽत्रैव स्वर्गे तथा कृते तेन देवेन सा निर्नामिका तत्रैव स्वर्गे ललिताङ्गस्य प्रियाऽभवत् । ततः स देवस्तया प्रियया सह विलसन् सुखीजातः ॥ इति ललिताङ्गदेवभवः ॥ ततः क्रमादायुःक्षये ललिताङ्गसुरो जम्बूद्वीपे प्राविहे सीतासरिदुत्तरे तटे पुष्कलावतीविजये लोहार्गलपुरे स्वर्णजङ्घस्य राज्ञः लक्ष्मीदेवीकुक्षिजन्मा प्रद्युम्नप्रतिमो वज्रजकोऽङ्गजोऽभवत् । पित्रा जन्मोत्सवः कृतः यौवनं प्राप क्रमाइज्रजङ्घकुमारः । इत: स्वयम्प्रभापि स्वर्गात् न्युत्वा तस्मिन्नेव विजये पुण्डरीकिण्यां नगर्यां वज्रसेनतीर्थकरचक्रवर्तिनः श्रीमती नाम्ना सुताs भूत् सा क्रमाद्यौवनालङ्कृतदेहाऽजनि । एकदा श्रीमती सन्निहितवने समुत्पन्नकेवलज्ञानं मुनिं प्रेक्ष्य जाति-- तिं प्राप । ततः पूर्वभवपतिं करिष्यामीति निर्बन्धपरा पितुर्निर्देशात् पूर्वभवं स्वं स्वरूपं चित्रपट्टे लेखया
Jain Education
For Private & Personel Use Only
w.jainelibrary.org