________________
FOPAN
सद्यः स्वप्नफलसंवादी ममायं भवदुपदेशः' । स नृपः इत्युच्चरन् क्षीणे आयुषि किंकर्तव्यतामूढतयाऽनुतप्यमानः सचिवेनोचे-'एगदिवसंपि जीवो, पवज्जमुवागओ अनन्नमणो । जइवि न पावइ मुरकं अवस्स वेमाणिओ होइ॥१॥ इति जैनसिद्धान्तगिःप्रामाण्यात् चारित्रग्रहणात् सफलय स्खं जन्म, परलोकं साधय । श्रुत्वेति मंत्रिवचः । क्षितिपतिः खं पुत्रं राज्ये निवेश्य कृताष्टान्हिकामहःपुरस्सरं प्रव्रज्यां जग्राह गुरुपाखें । गरूक्तविधिना गृहिता समाधिना विपद्य, ईशानदेवलोके श्रीप्रभविमाने ललिताङ्गनामा सुरः, प्रस्फुरद्दीप्तिभासुरशरीरः समजनि। तस्य स्वयप्रभाभिधा देवी-पत्नी बभूव तया समं दिव्यान् भोगान् चिरं भुञ्जानस्य तस्य देवस्य कदाचिदायुःक्षये खयम्प्रभा देवी स्वर्गात् च्युता । तस्या देव्या विरहेण विधुरोऽभूल्ललिताङ्गः । ततः उद्यानादिवापिषु रममाणः क्षणं न रतिं लेभे ।। यतः---" देवाऽवि देवलोए, दिव्वाभरणेण रंजियसरीरा । जं परिवति तत्तो, तं दुक्खं दारुणं तेसि ॥ १ ॥ तं l सुरविमाणविभवं, चिंतिअ चवणं च देवलोगाओ । इय बलियं च जं नवि, फुट्टइ सयसकर हिययं ॥ २ ॥ ईसाविसायमयकोह-मायालोभेहि एकमाईहिं । देवाऽवि समभिभूया, तोर्स कुतो सुहं नाम ॥ ३ ॥ इतश्च स्वयम्बुद्धोऽपि । मंत्री गृहीतव्रतोऽनशनेन मृत्वा तस्मिन्नेव कल्पे दृढधर्माभिधः शक्रसामानिकोऽभूत् । यतः-तवनियमेण य मुरको ।
JainEducation
For Private Personel Use Only
Jaw.jainelibrary.org