________________
जाग्रति ह्यावयोः प्रिये ! ॥ २५ ॥ वटो यदेष संप्राप्तः, पृथ्वीस्थानपुरं मम । तत्त्यजावोऽधुना शीघ्रमावां न्यग्रोधकोटरम् ॥ २६ ॥ देवादेशेन कुत्रापि, पुनर्यास्यति चेवटः । पतिष्यावस्ततः कापि, गत्वावां विषमे ननु ॥ २७ ॥ मन्त्रयित्वेति सहसा, निरीय वटकोटरात् । यावत्तौ तस्थतुः स्वस्थावासन्ने कदलीवने ॥ २८ ॥ उत्पतन्तं वटं। तावत्, दृष्ट्वा ताविति दध्यतुः । एष वृक्षो निजं स्थानं, पुनः सम्प्रति गच्छति ॥ २९॥ इतश्च वनिताक्रन्द, श्रुत्वा । दीनं महाबलः । पुंरूपां स्थापयामास, तत्र तां दयितामपि ॥३०॥ अधुनैवाऽऽगतोऽत्राहं, कर्त्तव्या नाधृतिः प्रिये ! इत्युक्त्वाऽनुस्वरं याति, कुमारः कृपया ततः ॥ ३१ ॥ महाबलकुमारस्य, पश्यन्ती मार्गमेकिका । शून्ये रम्भावने । तत्र, तस्थौ मलयसुन्दरी ॥ ३२ ॥ अतिक्रान्ता निशास्तस्याः, स नायातीति चिन्तया । प्रभाते सति सा दध्यौ, यामि तावत्पुरान्तरे ॥ ३३ ॥ भविष्यति गतस्तत्र, पित्रोरुत्कण्ठितो हि सः । ध्यात्वेति चलिता यावत्, साऽविशत् , गोपुरं पुरः ॥३४॥ तलारक्षेण तावत्स, दिव्यवेषो विलोकितः । उक्तश्चाहो युवन् ! कोऽसि, त्वमपूर्वोऽत्र मे पुरे ?॥३५॥ अब्रुवाणे किमप्यस्मिन् , दिशो मौनेन पश्यति । सम्यगालोकितं दण्डपाशिकेनेतरैरपि ॥ ३६॥ तानि कुण्डलवस्त्राणि, देहे तस्योपलक्ष्य तैः । ऊचे कुमारसत्कानि, नूनमेतान्यदः किमु ? ॥३७॥ तलारक्षेण तेनाशु, राजान्तिकमनायि सः ।
10000000000000000000००००००००००००
Jain Educationa
l
For Private Personel Use Only
PUjainelibrary.org