________________
॥४७॥
म. सु. तस्य तं वेषमालोक्य, विस्मितास्ते नृपादयः ॥ ३८ ॥ ऊचुश्च कः पुमानेषोऽदृष्टपूर्वोऽतिरूपवान् । महाबलस्य सर्वोऽयं, म. का.
वेष एतस्य निश्चितम् ॥३९॥ अथावादीत्तलारक्षो, गोपुरं प्रविशन्नयम् । दृष्टः पृष्टश्च बहुधा, न किञ्चिदत्तमुत्तरम् ॥४०॥ 18पृष्टो राज्ञाऽथ सैषोऽपि, कोऽसि त्वं करय वा कुतः । सोऽचिन्तयन्निजे चित्ते, सत्यं वक्ष्यामि चेदहम् ॥ ४१ ॥ प्रत्ये
यति तथाप्येते, न मे वचसि सम्प्रति । येनावयोरसंभाव्यो, वृत्तान्तः सकलोऽप्ययम् ॥ ४२ ॥ कुमारेण विना तस्मादृत्तान्तः कोऽपि न स्वकः । प्रकाश्योऽत्र मया नूनं, यद्यद्भाव्यं तदस्तु मे ॥ ४३ ॥ अथोचे तेन राजेन्द्र !, तस्य । मित्रमहं प्रियम् । महाबलेन तेनैष, वेषो दत्तोऽखिलोऽपि मे ॥ ४४ ॥ शूरपालोऽवदत्कुत्र, हहो ! सोऽस्ति महाबलः । सोऽवोचदत्र कुत्रापि, स्वेच्छाचारेण तिष्ठति ॥ ४५ ॥ नृपोऽवोचत्कुमारश्चेत् , क्वापि पुण्यैर्भवेदिह । तत्किमागत्य नास्माकमायोत्को मिलेदहो ॥ ४६॥ किन्तु नास्ति कुमारोऽत्र, पतितः क्वापि सङ्कटे । बहुधा वीक्षितोऽप्यत्र, प्राप्तः कुत्रापि येन न ॥ ४७ ॥ यदि त्वं स्नेहलं मित्रं, कुमारस्य सुतस्य मे । तत्कि कोऽपि जनोऽस्माकं, मध्ये त्वां नोप-1 लक्षयेत् ? ॥ ४८ ॥ इत्यायुक्तोऽपि यावत्स, वदेत्किञ्चन नोत्तरम् । ततो राज्ञा पुनः प्रोचे, हुं ज्ञातं घटते ह्यदः ॥ ४९ ॥ अदृष्टं यद्गतं पूर्व, कुमारवसनादिकम् । तत्सर्वं तेन चौरेण, प्रचण्डेन हृतं खलु ॥ ५० ॥ यः कल्पे
॥४७॥
Jain Education
For Private Personel Use Only
OUjainelibrary.org