________________
कुमारण, पुरो मातुरितीरितम् ॥ १२ ॥ चेत्पञ्चरात्रिमध्ये न, हारं हस्तेऽर्पयामि ते । तदाऽहं प्रविशाम्यग्नौ, माताला-म. का. ॥४६॥
कुले खलु ॥ १३ ॥ मात्रापि भणितं वत्स!, तं हारं न लभे यदि । दिनपञ्चकमध्येऽहं, निश्चयेन म्रिये तदा ॥१४॥ नासीत्तस्य कुमारस्य, शुद्धिर्हारानुयायिनः । दिवसः पञ्चमः सूर्योदये किल भविष्यति ॥ १५ ॥ तस्यामलभमानायां, कुमारं हारमप्यमुम् । मृत्यवे तिष्ठमानायां, समायातोऽस्म्यहं ततः ॥ १६ ॥ किं विषेण जलेनाथ ?, शस्त्रघातेन । वाऽग्निना । पातेनोद्वन्धनेनापि, न जाने सा मरिष्यति ॥१७॥ बहुलोकयुतस्तां तु, नृपोऽप्यनु मरिष्यति । शृण्वन्निति कुमारोऽपि, कोटरस्थो व्यचिन्तयत् ॥ १८ ॥ नूतमेते सुराः केऽपि, प्रजल्पन्ति परस्परम् । ततः सत्यमिदं वाक्यं, नैते ।
वितथवादिनः ॥ १९॥ अहो विगतसत्योऽहं, वर्ते जीवन्निहैव हि । मम तत्र कुलं सर्व, दुःखार्त्त क्षीयते पुनः Kaln २० ॥ पुनर्जगाद भूतोऽथ, गम्यते तत्र साम्प्रतम् । कौतुकं वीक्ष्यते कामं, रक्तौघः स्वाद्यते तथा ॥ २१ ॥ मुक्तः ।
सर्वैश्च हुङ्कार, उत्पपात वटस्ततः । वटकोटरसंस्थौ तौ, कुमारौ द्वौ च जग्मतुः ॥२२॥ गच्छन् वेगेन सम्प्राप, पृथ्वी- ॥४६॥ स्थानपुरं वटः। क्षणेनालम्बशैलस्य, मेखलायां च तस्थिवान् ॥ २३ ॥ नगरासन्नवर्त्तिन्या, गोलानद्यास्तटे स्थितम् । धनञ्जयस्य यक्षस्य, भवनं ते सुरा ययुः ॥ २४ ॥ महाबलोऽपि तं दृष्ट्वा, प्रदेशमुपलक्ष्य च । जगादाद्यापि पुण्यानिः
Jain Education into
For Private Personal Use Only
www.jainelibrary.org