SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ म.सु. जन्मान्धता पश्चात् , न पुनर्नेत्रनाशनम् ॥ २१ ॥ वैरिणा किं हतौ किं वा, निहितौ विषमे क्वचित् । दम्पती तौ हतौ म. का. किं वा ?, हाहा न ज्ञायतेऽपि किम् ॥२२॥ किं वा वीरः पुनः कोऽपि, महाबलमिषादिह । कन्यामुद्दाह्य स्वच्छन्दं, गृहीत्वा । स्वगृहं ययौ ॥ २३ ॥ भ्रान्तिमुत्पाट्य निशङ्ख, किं कुमारीकुमारयोः । कौचिन्निवार्य मृत्योर्मा, क्रीडां कृत्वा गतौ कचित् ।। ॥ २४ ॥ तत्किं करोमि ? यामि क ?, जल्पन्निति नरेश्वरः । यावत्तस्थौ विमूढात्मा, मनश्चिन्ताभराम्बुधौ ॥२५॥ ताववेगवती स्माह, देव! धीर! विनिश्चितम् । महाबलः स एषैव, सैषा मलयसुन्दरी ॥ २६ ॥ किन्तु रात्रौ बहिर्याती, पातयित्वा च्छले बलात् । हृतौ केनापि देवेन, वेति सम्भाव्यते ध्रुवम् ॥२७॥ ततो देशान्तरारण्यनदीपर्वतभूमिषु ।। विलोकयतु सर्वत्र, सम्प्रेष्य निपुणान्नरान् ॥ २८ ॥ पृथ्वीस्थानपुरे पूर्व, शुद्धिं कारयताऽचिरात् । तत्रोपायेन केनापि, तौ भवेतां गतौ यदि॥ २९ ॥ इमं व्यतिकरं सर्व, सूरपालमहीपतिम् । ज्ञापयताऽऽशु यत्सोऽपि, समदुःखो विलोकते । ॥ ७३० ॥ साधु साधु तवैषा धीः, साधूपायस्त्वयोदितः। इति प्रशंसता तेन, सर्व तत्कथितं कृतम् ॥ ३१ ॥ दत्त्वाऽथ शिक्षा मलयादिकेतुर्नामा कुमारः प्रहितो नृपेण । श्रीसूरपालस्य नरेश्वरस्य, वृत्तान्तमाख्यातुममुं समग्रम् ॥ ३२ ॥ इतिश्रीजयतिलकसूरिवि• ज्ञानरत्नोपा० मलयसुन्दरीचरिते तत्पाणिग्रहणप्रकाशनो नाम द्वितीयोदेशः ॥ ॥४५॥ Jain Education i n For Private & Personel Use Only Olw.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy