SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ राज्ञा वीरधवलेन, बोधिता अपि ते नृपाः। बहुधा सामदण्डाभ्यां, परमेवं बभाषिरे ॥ ९ ॥ प्रभातेऽत्र वयं सर्वे, हत्वा जामातरं तव । सुतामादाय तां राजन् ! , गमिष्यामो न चान्यथा ॥ ७१० ॥ ततस्त्यक्त्वा नृपान् राजा, वेगादागत्य मन्दिरम् । प्रगुणां कारयामास, करभी वायुजित्वरीम् ॥ ११॥ नृपस्त्वरयितुं यावद्धूवरगृहं ययौ । अपश्यंस्तत्र तौ तावत् , पृष्टवानुपमातरम् ॥ १२ ॥ तयोर्गमनवृत्तान्तं, वेगवत्या निवेदिते । तदाऽऽगमनमार्ग स, पश्यंस्तस्थौ नराधिपः ॥ १३ ॥ सञ्जातेऽथ निशीथेऽपि, तत्र नायातयोस्तयोः । सर्वत्रालोकयद्राजा, व्याकुलस्तवधूवरम् ॥ १४ ॥ नाभवत्किन्तु कुत्रापि, तयोः शुधिरतः प्रगे । ज्ञात्वा सम्यग् ययुभूपा, विलक्षाः स्वपुराणि ते ॥ १५ ॥ अप्राप्तायां तयोः शुद्धौ, जामातृसुतयोः क्वचित् । दुःखितो भूपतिश्चित्ते, चिन्तयामासिवानिति ॥ १६॥ पृथ्वीस्थानपुरं तत्व!, वैषा चन्द्रावतीपुरी । कुमारी दुःखिता वैषा, क्व गुणी स महाबलः ? ॥ १७ ॥ मिलितो विधियोगेन, कार्यस्यात्र निदानके । अभाग्यैर्नः पुनः स्थाने, क सम्प्राप्ताविहार्भको ? ॥ १८ ॥ विद्युत्झात्कारवत् दृष्टौ, तावस्माभिस्तनन्धयौ । कटरे विधिसंयोग, इन्द्रजालोपमः स्फुटम् ॥ १९ ॥ विपाको यदि कार्यस्य, विधे! ध्यात-| स्त्वयेदृशः । तत्किं प्रकटितो मूलादेतयोर्दर्शनक्रमः ? ॥ ७२० ॥ अदत्तं भोजनं साधु, न स्थालं पुरतो हृतम् । वरं | Jain Education to For Private Personel Use Only W.w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy