SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Jain Education | कस्मादिहायातौ च कीदृशौ ॥ ५८ ॥ मयोक्तं क्षत्रियावात्रां, चलितौ विषयान्तरे । सत्यङ्कनकवत्यापि सर्वमङ्गीकृतं ततः ॥ ५९ ॥ तस्यामात्मकृतं सर्व, कथयन्त्यां पुरो मम । विभातायां विभावर्या, पुनः पृष्टं मया ततः ॥ ६६० ॥ सुन्दर्याख्याहि किंचित्ते, पार्श्वेऽरत्याभरणादिकम् ? । अथानीय तया सर्व, दर्शितं प्रीतया मम ॥ ६१ ॥ एतावन्मात्रमेवैतत् पुनः पृष्टे तयोदितम् । लक्ष्मीपुञ्जाभिधो हारो, निक्षिप्तोऽस्ति मया तु सः ॥ ६२ ॥ क्वेति पृष्टे तयोचेऽस्ति, शून्यागारस्य सन्निधौ । चतुष्पथ स्थिते कीर्तिस्तम्भस्य भृतकान्तरे ॥ ६३ ॥ दिवाहं नैव शक्नोमि, तत्र गन्तुं कथञ्चन । रजन्यामपि यास्यामि, नृपात्कृच्छ्रेण बिभ्यति ॥ ६४ ॥ ज्ञात्वा स्थानं महाहारं, तमाकष्टुं यदि क्षमा । तदागच्छ गृहीत्वा त्वं, पश्चाद्याव उभावपि ॥ ६५ ॥ अन्यथाऽऽगत्य सन्ध्यायां, कथनीयं त्वया मम । इत्यालोच्य मिथो मालादुत्तीर्णाऽहं ततः प्रिय ! ॥ ६६ ॥ पृष्टे मगधयाऽशंसि, मयाप्येवं तदग्रतः । तव प्रार्थनया भद्रे !, तथास्ति विहितं मया ॥ ६७ ॥ वारयन्त्यामपि यथा, त्वयैषा निशि यास्यति । ततो भोजनसामग्री, हृष्टा मे मगधा व्यधात् ॥ ६८ ॥ मया प्रच्छनया तत्र गत्वा प्रैषि समन्ततः । गत्वा पुरोऽस्य स्तम्भस्य, प्रापि हारः परं न सः ॥ ६९ ॥ ततः कनकवत्येतत्, निशि गत्वा मयोदिता । गृहीत्वा तं महाहारं, तत्रागच्छेस्त्वमित्यपि ॥६७०॥ आपृच्छय मगधां वेश्यां, ततः स्थानात् कथञ्चन । Hational For Private & Personal Use Only www.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy