SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ |श्रूयतां पुरः ॥ ३३ ॥ मार्गश्रमादहं खिन्ना, सुप्ता तत्रैव वेश्मनि । तौ द्वावपि समायातौ, तृतीये प्रहरे पुनः ॥ ३४ ॥ | उत्थापिताऽहमात्मीयदास्या मगधया ततः । छन्नो देवकुलस्यान्तः, पिहितो मोचितो घटः ॥ ३५ ॥ तावुभौ वादिनावुक्तौ, विधाय साक्षिणो मया । भनज्मि युवयोर्वाद, दत्त्वा किञ्चन साम्प्रतम् ॥ ३६ ॥ प्रतिपन्ने ततस्तेन, कथं दास्यति किञ्चन । इत्येवं विस्मिते लोके, मगधा संज्ञिता मया ॥ ३७ ॥ ततो मगधयाऽवादि, प्रतिवादी सुरौकसः । मध्येऽस्ति किञ्चन घटे, स्वयं गत्वा गृहाण तत् ॥ ३८ ॥ मध्ये गत्वाऽथ यावत्स, उद्घाट्य च पिधानक । चिक्षेपाशु घटे हस्तं तावलग्नोऽहिरुछ्वसन् ॥ ३९ ॥ तेनाऽऽशु कर्षता हस्तं जगदेऽस्तीह किञ्चन । ततो मगधयाऽभाणि, हसन्त्या हर्षयुक्तया ॥ ६४० ॥ मयाऽऽसीन्मानितं यत्ते, तदिदं त्वं गृहाण भोः ! मम तेऽपि न सम्बन्धः, तत्र मुक्ताऽस्मि दुर्ग्रहात् ॥ ४१ ॥ हसन्तोऽथ जनाः प्रोचुः सर्वे तत्रेत्यहो मतिः । एतस्य त्यजतः सर्वे, दत्तं सुष्वति किञ्चन ॥ ४२ ॥ सर्पदष्टो महाधूर्त्तः, स नीतस्तोतलामठम् । अहं तु स्वगृहं नीता, तया मगधयाऽऽग्रहात् ॥ ४३ ॥ प्रविश्यन्त्या मया गेहूं, भणितं न विशाम्यहम् । येनात्र वसति द्वेष्यं, राज्ञः किञ्चन मानुषम् ॥ ४४ ॥ सम्भ्रान्ता मगधा दध्यौ, नूनं सामान्य एष न । नरः कोऽपि वरज्ञानी, प्रच्छन्नो भ्रमति क्षितौ ॥ ४५ ॥ ततो मत्पादयोर्लना दीना सती Jain Education lonal For Private & Personal Use Only w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy