________________
| प्रयोगतः ॥ ८ ॥ इतश्च तस्कराः केऽपि, मञ्जूषामुपभित्तिकम् । रक्षितामेकचौरेण, मुक्त्वाऽगुर्नगरं प्रति ॥ ९ ॥ क्वापि सङ्गोप्य वर्णादि, सर्व तस्करसंज्ञया । आलपस्तस्य चौरस्य समीपं गतवानहम् ॥ ६१० ॥ ततोऽहं तेन चौरेण, लोलुपेनेति याचितः । तालं भङ्क्तुमलं नाहं तत्त्वमुद्घाट्य देहि मे ॥ ११ ॥ मया तथा कृते तेन, मञ्जूषासंस्थितं वरम् । बद्धा पोलके वस्तु, हीनसत्त्वेन जल्पितम् ॥ १२ ॥ यदि यास्या - म्यहं चौरास्तेऽन्ये वा राजपौरुषाः । आगत्यानुपदं शीघ्रं, मां हनिष्यन्ति निश्चितम् ॥ १३ ॥ कथं करोमि ? तद्वीर ! सुधियं मे समादिश । कारुण्येन मया तस्य, रक्षोपायोऽथ चिन्तितः ॥ १४ ॥ पद्मशिलां मयोद्घाट्य, तत्र भट्टारिकागृहे । | निक्षिप्तः शिखरे चौरः, स लोप्त्रेण समन्वितः ॥ १५ ॥ तथैव तां शिलां मुक्त्वा, स्थितं देवीगृहाङ्गणे । वटवृक्षं समारुह्य, यावत्सावहितः स्थितः ॥ १६ ॥ सर्व तावन् मया दृष्टं, तवागमनमिच्छता । मध्येवटकोटरं स्वं, वस्त्रालङ्करणादिकम् ॥ १७ ॥ तया देवतया मत्तो, हृत्वैतानीह कोटरे । मुक्तानीति मया ज्ञात्वा गृहीतान्यखिलान्यपि ॥ १८ ॥ | इतस्त्वामागतां वीक्ष्य, तत्रोन्मार्गेण मन्दिरे । उत्तीर्याहं वटस्कन्धात्, मिलितोऽस्मि त्वया सह ॥ १९ ॥ इत्याख्यातं मया कान्ते !, तवाग्रे चरितं निजम् । त्वमप्याख्याहि मे मूलादात्मीयं विहितं तदा ॥ ६२० ॥ सा जगाद ततः
Jain Educationtional
For Private & Personal Use Only
ww.jainelibrary.org