________________
उज्ज्वलनेपथ्यघरो, वरोऽभाहल्लभान्वितः। सुखलक्ष्भ्याऽन्वितो मूर्त्त, इव पुण्यमहोत्करः ॥ ८३ ॥ आशासितावुभावेवं, पितृभ्यां तौ तु दम्पती । संयोगो युवयोरस्तु, ज्योत्स्नाचन्द्रमसोरिव ॥ ८४ ॥ प्रभूतं नरनाथेन, कुमाराय प्रकल्पितम् ।। निजलक्ष्म्यनुमानेन, गजवाजिरथादिकम् ॥ ८५ ॥ ततस्ताभ्यां प्रहृष्टाभ्यामाश्रिते वासवेश्मनि । तदैव भूपतिर्गत्वा.
पप्रच्छेति महाबलम् ॥८६॥ कुमार! त्वं पुरात्स्वीयादेकाकी कथमागतः ? । अतर्कितोऽत्र पुण्यैः , कार्यस्यैव क्षणे वद | Jen८७॥ पूर्वप्रपञ्चितं स्वीयकूटस्य सदृशं वचः । कुमारः श्लिष्टमाचख्यौ, दृष्ट्या संज्ञापयन् प्रियाम् ॥८८॥ उत्पाट्याहं ।।
महाराज!, देव्यानीतोऽत्र रंहसा । राजाऽह घटते सर्व, यत्कृतं कुलदैवतैः ॥ ८९ ॥ कुमारः स्माह मे नूनं पितरौ । विरहासहौ । अस्थातामतिदुःखेन, पश्यन्तौ मामितस्ततः ॥ ५९० ॥ यदि द्वादशयामान्तर्लप्स्येते नैव मामिमौ । मरिष्यतस्तदा नूनमतिस्नेहलमानसौ ॥ ९१ ॥ ततः प्रसादमाधाय, देव ! मां विसृजाधुना । मह्यं मम पितृभ्यां । च, देहि त्वं ननु जीवितम् ॥ ९२ ॥ प्रतिपदिवसे सूर्येऽनुद्गतेऽहं गतो यदि । पृथ्वीस्थानपुरं तन्मे, पितृभ्यामस्ति । सङ्गमः ॥ ९३ ॥ इति श्रुत्वा नृपेणोचे, न कुमाराधृतिस्त्वया । कर्त्तव्या कापि यञ्चिन्ता, सर्वेषा वर्त्तते मम ॥ ९४ ॥ द्वाषष्टियोजनानीतः, पृथ्वीस्थानपुरं हि तत् । रजन्याः प्रथमं याम, तिष्ठ त्वं तावदत्र भोः ! ॥ ९५ ॥ यावदानाय्य ।।
in Education
sal
For Private & Personel Use Only
Kaw.jainelibrary.org