________________
सूरपालनरेशितुः । महावलो महावीर्यश्चिरं जयति भूतले ॥ ५७ ॥ चिन्तितं तेन भूपेन, स्वयंवरविधायिना । अहो ! किं श्रूयते कर्णसुधासारोपमं वचः ? ॥५८॥ ऊचे च ब्रूहि रे सम्यग्, कुमारः कोऽयमीदृशः? । सोऽवोचदेव ! सन्देहो,Vel
न कोऽप्यत्र मनागपि ॥ ५९॥ प्रसादैरहमेतस्य, वृद्धिमेतावतीं गतः । अपि दृष्टं न किं वेद्मि, कुमारं तं महाबलम् । an ५६० ॥ उवाच भूपतिवृष्टिरनभ्राऽभूदहो इयम् । अकस्मादेव तज्जातमगम्यं मनसाऽपि यत् ॥ ६१॥ अहो अ
वितथं जातं, कथितं तस्य चाधुना । प्रचलेन्मेरुचूलाऽपि, न पुनर्जानिनो वचः ॥ ६२ ॥ तत्किं तारापथाकिंवा, दिक्चक्रात् किं रसातलात् ? । कुमारोऽयं समायातः, सम्यग् न ज्ञायतेऽपि किम् ? ॥ ६३ ॥ अस्तु तावदियं चिन्ता, साम्प्रतं ज्ञास्यते यतः । पश्चादपि कुमारस्य, मुखेनैवाखिलं ह्यदः ॥६४ ॥ करोम्यहं विनश्यन्ति, कार्याण्यन्यानि || साम्प्रतम् । ध्यात्वेति ते नृपास्तेन, बोधयित्वा प्रसादिताः ॥ ६५ ॥ कुमारं जेमयामास, कुमारी स्वजनानपि । भोजनं प्रेषयामास, राजाऽन्येषां च भूभुजाम् ॥ ६६ ॥ विलोकितेऽपि सर्वत्र, न लब्धे ज्ञानिपूरुषे । दध्यौ भूपो / गतो नूनं, निरीहः सोऽन्यकार्यकृत् ॥ ६७ ॥ बुभुजे भूपतिः पश्चात्सार्धं चम्पकमालया। सामग्री कारयामास, लनेऽथाऽऽसन्नसंस्थिते ॥ ६८ ॥ पूजयामास भूपालो, विधिवत्कुलदेवताः । बन्धुवृद्धगुरूंश्चापि, वस्त्रताम्बूलभो
.00000000
2008
in Education Habiosa
For Private Personel Use Only
Alw.jainelibrary.org
INI