________________
Jain Education
| कुमारि ! त्वमिहास्माकं मिलिता स्मरतामिति । द्रक्ष्यामो नयनैरेभिः, किं कदापि कुमारिकाम् ? ॥३२॥ ऊचे चम्पकमा लाऽथ, जाताऽहं वैरिणीव ते । त्वया वत्से ! कथं सोढं, दुःखं तत्तादृशं पुनः १ ॥ ३३॥ राजा जगाद वत्से! त्वं, निपतन्त्यन्धकूपके । धृतास्मत्कुलदेवीभिः, स्थापिता चात्मसन्निधौ ॥ ३४ ॥ मा भूदस्याः कुमार्यास्तु, योऽपि सोऽपि वरः किल । इति राजकुमाराणां सत्त्वस्य कषहेतवे ॥ ३५॥ मध्येस्तम्भं कुमारि ! त्यां, क्षिप्त्वा शृङ्गारबन्धुराम् । वरमा| लाकरां चारुचन्दनादिभिरचिताम् ॥ ३६ ॥ अपहृतेन कनकवतीपार्श्वाद्वलादपि । लक्ष्मीपुञ्जाख्यहारेण, कण्ठक्षिप्तेन भूषिताम् ॥ ३७ ॥ एताभिरेव ह्यस्माकमेष स्तम्भः समर्पितः । अधुना कुलदेवीभिः पाणिग्रहणपर्वणि ॥ ३८ ॥ चतुर्भिः | कुलकम् । राजाऽऽख्यत् ज्ञानिनो ज्ञातं सर्वमस्तीति सम्प्रति । स्वप्नेऽप्यागत्य किमपि, नोक्तं ताभिरिति ध्रुवम् ॥ ३९ ॥ अहो समीहितं सर्व, सिद्धं सम्प्रति मामकम् । सा च दूरे गता चिन्ता, भाग्यमुद्घटितं पुनः ॥ ९४० ॥ खाट्करोति महामात्यास्तदेकं हृदये मम । यत्तेन ज्ञानिनाऽऽदिष्टो, वरः पुत्र्या महाबलः ॥ ४१ ॥ यद्यथा कथितं तेन, तत्सर्वं मिलितं तथा । एतदेवान्यथा जातं, यत्कुमार्या वरो न सः ॥ ४२ ॥ यदेषोऽत्र महास्तम्भो, वेणिकेन महौजसा । अनेन दारितो नूनं, कुमार्या वर एष तत् ॥४३॥ शृण्वन्निति नरेन्द्रस्य वाक्यान्येष महाबलः । कृतकृत्योऽहसच्चित्ते, वस्त्रेण पिहि -
For Private & Personal Use Only
w.jainelibrary.org