SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ म. सृ. ॥ ३७ ॥ Jain Education भवत्कन्या, जने हास्यं भविष्यति ॥ १९ ॥ चिन्ताचक्रसमारूढो, यावदेवं स भूपतिः । तस्थौ वीणाकरस्तावदुपस्तम्भं महाबलः ॥ ५२० ॥ स्तम्भयित्वा जनं सर्वे, वीणावाद्येन तत्र सः । गृहीत्वा धनुराचख्यौ सत्त्वं त्वं देव पश्य मे ॥ २१ ॥ मा ग्रहीस्त्वं धनुर्मुञ्च, मुञ्च गान्धर्विक! द्रुतम् । एभिर्भिन्नो न यः स्तम्भः, स त्वया भेत्स्यते कथम् ? ॥ २२ ॥ इति लोकनिषेधोक्तीः शृण्वन्नारोप्य तद् धनुः । चक्रे टङ्कारवं लोकश्रुतीर्बधिरयन्नयम् ॥ २३ ॥ मुक्त्वा तत्स्थानकं ज्ञातस्थानमध्यस्थकीलिकाम् । छिन्दंस्तीक्ष्णेन बाणेन, स्तम्भं तं हतवानसौ ॥ २४ ॥ ऊर्द्ध विघटिते तस्मिन् सुदृढे स्तम्भसम्पुटे । पुण्यमुद्घटितं वीरधवलस्यास्य भूपतेः ॥ २५ ॥ कर्पूरमिश्रश्रीखण्डकस्तूरीकृतलेपना । दिव्यालङ्कारवसना, ताम्बूलपूरितानना ॥ २६ ॥ वामेन पाणिना चारुबीटकं दक्षिणेन च । वरमालां तं च हारं, श्रीपुत्रं बिभ्रती हृदि ॥ २७ ॥ तन्मध्ये ददृशे राज्ञा, कन्या मलयसुन्दरी । आनन्दपूर्णमनसा, समकालं जनेन च ॥ २८ ॥ त्रिभिर्विशेषकम् । अथापृच्छि कुमारी सा, नृपेण मुदितात्मना । वत्से ! कथय काष्ठे त्वं प्रविटाऽत्र कथं कदा ? ॥ २९ ॥ ततो जगाद सा बाला, पश्यन्ती पितरं मुदा । जीविता यत्प्रसादेन, कुलदेव्यो वदन्ति ताः ॥ ५३० ॥ कुमार्यामिति जल्पन्त्यामवतार्यावतारणम् । वस्त्राद्यैर्वस्तुभिर्भूरि, लोको राजादिकोऽवदत् ॥ ३१ ॥ " For Private & Personal Use Only म. का. ॥ ३७ ॥ w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy