SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ भविताऽस्य तु ॥६८॥ ते सर्वे मिलिता भूपा, विलक्षीभूतचेतसः । कुद्दा उत्थापयिष्यन्ति, किमप्यत्रासमञ्जसम् ॥६९॥ म. इदं युक्तमयुक्तं वाऽधुना न ज्ञायते किल । कार्ये निष्पद्यमाने तु, ज्ञास्यते भविता यथा ॥४७०॥ अथ सायं समाजग्मुः, राजानः सपरिच्छदाः। आवासिता निवासेषु, दर्शितेषु पृथक्पृथक् ॥ ७१॥ नैमित्तिको नृपं प्रोचे, मन्त्रो मेऽस्त्यर्द्धसाधितः । न चेत्तं साधयाम्यद्य, ततोऽसौ नैव सिध्यति ॥ ७२ ॥ तन्मामद्यतनीमेकां, तमिश्रां विसृज प्रभो ! । नियमेनागमिष्यामि, निशान्ते पुनरम्यहम् ॥ ७३ ॥ सोऽनुज्ञातस्ततो राज्ञा, मन्त्रसाधनहेतवे । यत्किञ्चित् द्रविणं याति, तद्गृहाणेति जल्पता ॥ ७४ ॥ कियद् द्रव्यमुपादाय, नत्वा तं स विनिर्ययौ । राजापि गमयामास, तां निशां चिन्तया भृशम् ॥ ७५॥ प्रातरुद्घाट्यमानेषु, गोपुरेषु समन्ततः । स पुनः प्राणमझूपं, समागत्य निमित्तवित् ॥६॥ पृष्टस्तुष्टेन भूपेन, सन्मान्य स पुमानिति । सुखेन मन्त्रसंसिद्धिः, सञ्जाता तव सत्तम !॥ ७७ ॥ स स्माहाभूत्कियन्मात्रा, सिद्धिर्मन्त्रस्य मे नृप ! । दुःसाध्यस्य कियन्मात्रा, भविष्यत्यधुना पुनः ॥ ७८ ॥ किन्तु स्मरंस्तवादेशं, तदे- ॥३५॥ वाहमिहाऽऽगमम् । स्तम्भार्चनविधिं कृत्वा, पुनर्यास्यामि वेगतः ॥ ७९ ॥ अहो परोपकार्येष, मन्त्रं मुक्त्वाऽर्द्धसाधितम् । उक्तायामेव वेलायां, मत्कार्येण समागतः ॥ ४८० ॥ ईदृशा एव जायन्ते, नराःस्वीकृतकारिणः । इति in Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy