________________
ध्यायन्नपस्तस्थौ, यावत्स्वस्थमतिस्तदा ॥ ८१ ॥ स्तम्भस्य शुध्धये तावत्, प्रेषितो योऽभवत् पुमान् । समागत्य स. भूपालं, दत्तकर्ण व्यजिज्ञपत् ॥ ८२ ॥ युष्मदादेशतो गत्वा, देव ! गोपुरतो बहिः । यावदीक्षां बभूवाहं, तत्समीपमितस्ततः ॥ ८३ ॥ प्रतोलीवामतस्तावत्, दृष्टः प्राकारकोणके । विचित्रचित्रसंयुक्तः, स्तम्भ एको मया महान . ॥ ८४ ॥ श्रुत्वेति ज्ञानिनं शंसन् , सहैवादाय तं नरम् । ययौ तत्र महीपालः, स स्तम्भो यत्र विद्यते ॥ ८५ ॥ चित्रीयमाणचित्तोऽथ, विस्फारितविलोचनः । यावद्भूपोऽपि लोकोऽपि, तं स्तम्भं पूजयिष्यति ॥ ८६ ॥ तावन्नैमित्तिके || नोचे, स्तम्भेऽस्मिन् केनचिन्नहि । लगनीयः करो येन, कुप्यन्ति कुलदेवताः ॥ ८७॥ आनाय्य ज्ञानिना सर्व, ततः पुष्पादिकं स्वयम्। पूजाविधिः समारेभे, रतम्भस्यानेकभङ्गिभिः ॥ ८८ ॥ उपविश्य पुरस्तस्य, कृत्वा पद्मासनं । च सः । ध्यानस्थ इव वक्रेण, चक्रे ह्रींकारभाषणम् ॥ ८९ ॥ कारिते प्रेक्षणे तत्र, मिलिते च पुरीजने । साईयामे गतेऽथा, आदिष्टास्तेन ये नराः ॥ ४९० ॥ शुचीभूताः दृढस्कन्धाः, पुष्पमालालिमालिता; । उत्पाट्य तं महास्तम्भ, प्रचेलुर्नगरी प्रति ॥९१॥ युग्मम् । नरेन्द्रे सह लोकेन, पादचारेण गच्छति। नाटके क्रियमाणे च, बन्दिवृन्दे । पठत्यपि॥९२॥नागरैः क्रियमाणेषु, मङ्गलेषु पदे पदे । महेन महता निन्ये, स तैः स्तम्भः स्वयंवरम् ॥९३॥ युग्मम् ।
Jain Education
na
For Private Personel Use Only
Mhaw.jainelibrary.org
19