________________
स्तथाशिषः । ददानो दानमर्थिभ्यो, भूपालः प्राप मन्दिरम् ॥ ५६ ॥ प्रथमं ज्ञानिना तेन, कारयित्वा ततः स्वयम् । स्नानाशनादिकं चक्रे, भूपतिः सकलां क्रियाम् ॥ ५७ ॥ तेनैव सह राज्ञाऽथ, कुर्वता संकथादिकम् । दिनाधं गमितं | किञ्चित्, शयानेन निशाऽपि च ॥ ५८॥ समादिष्टा नराः कुम्भिविष्ठागालनकर्मणि । प्रातरागत्य सर्वेऽपि, भूपमेवं व्यजिज्ञपन् ॥ ५९॥ न जानीमो वयं किञ्चिदस्माभिः कुम्भिनो मलम् । गालयगिरिदं लब्धं, मुद्रारत्नं प्रभोऽधुना । ॥ ४६० ॥ तैरित्युक्त्वाऽपिते हस्ते, मुद्रारत्ने नरेश्वरः । सुतानामाङ्कितं दृष्ट्वा, तच्छिरोऽकम्पयन् मुहुः ॥ ६१ ॥ पश्यत्यभिमुखं राज्ञि, ज्ञानिना जगदे वचः । ज्ञानदृष्टं कदाप्येतन्नान्यथा भवति प्रभो ! ॥६२॥ राजा जगाद दुःखार्त्तः,
कुमारीपार्श्वतः कथम् ? । मत्तेभस्यास्य जठरे, गतमेतन्नरोत्तम ! ॥ ६३ ॥ ज्ञानी जगाद नो सत्यं, ज्ञायते देव ! किकञ्चन !। प्रभावः कुलदेवीनां, किन्तु सम्भाव्यतेऽप्ययम् ॥ ६४ ॥ प्रत्यये मिलिते तस्मिन, राजा हर्षवशंवदः ।। विशेषात् कारयामास, कन्यावविाहसज्जताम् ॥ ६५ ॥ विशालः कारितो राज्ञा, स्वयंवरणमण्डपः । आवासा भूभुजां योग्याः, सर्वेऽपि प्रगुणीकृताः ॥ ६६ ॥ जनोऽवोचदहो चित्रं, वीक्षध्वं कन्यकां विना । देवेनात्र समारेभे, यद्विवाहमहोत्सवः ॥ ६७ ॥ न भविष्यति चेत्कन्यालाभस्तत्किं गदिष्यति ? । आयातानामयं राज्ञां, लाघवं
Jain Education H
alosa
For Private & Personel Use Only
TRw.jainelibrary.org