________________
॥३४॥
गुणसेवधे ! ॥ ४३ ॥ तस्योपरि जनः सर्वो, हर्षोत्कर्षवशात्तदा । वस्त्राण्युत्तारयामास, सर्वाण्याभरणानि च ॥४४॥ म. का. उत्क्षिप्ताऽऽभरणो लोकः, संयोज्य करकुड्मलौ । जगादेति गृहाणेदं, प्रसीदाऽऽस्मासु सन्मते ! ॥ ४५ ॥ दीयते : यदि सर्वस्वं, हर्षदानेऽत्र तेऽधुना । तथाप्यस्योपकारस्य, पुरः स्वल्पं महामते ! ॥ ४६॥ तेनोक्तं ननु युष्माकं, मया । ग्राह्यं न किञ्चन । यदि गृह्ने ततः कीदृगुपकारो भवेन्मम ? ॥ ४७ ॥ अथाह नृपतिस्तस्य, स्तम्भस्य पुरुषोत्तम ! यः कोऽपि पूजनविधिः, स कर्त्तव्यस्त्वयैव हि ॥ ४८ ॥ बबन्धे शकुनग्रन्थि, तथेति भणताऽमुना । पप्रच्छेऽसौ / पुनर्ज्ञानी, राज्ञेति मुदितात्मना ॥ ४९ ॥ यथैतावत्त्वया ज्ञानिन् !, सर्वमेतन्निवेदितम् । पुरो ब्रूहि तथा को मे, परिणेष्यति कन्यकाम् ? ॥ ४५० ॥ तेनोचे पृथिवीस्थाने, सूरपालस्य नन्दनः । महाबलः कुमारस्ते, परिणेष्यति । नन्दनाम् ॥ ५१ ॥ अनुरूपतया लोके, प्रशंसामुखरे सति । एकेन बन्दिना पेठे, तत्र कालनिवेदिना ॥ ५२ ॥ संत्यक्तपूर्वकाष्ठोऽयं, दुरालोकः स्वतेजसा । सूरः प्रवर्त्तते देव !, लोकानां त्वमिवोपरि ॥ ५३ ॥ विज्ञप्तो मन्त्रिणा राजा, प्रसीद परमेश्वर ! । गम्यते नगरीमध्ये, मध्याह्नसमयोऽभवत् ॥ ५४ ॥ ज्ञानिनाऽथ । समं राजा, चचाल स्वगृहं प्रति । प्रसरत्यतुले तूर्यरवे लोकप्रमोदिनि ॥ ५५ ॥ पौराणां नयनानन्दं, कुर्वन् शृण्वं
Jain Educational
For Private
Personel Use Only
Hw.jainelibrary.org