SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ अत्रार्थ यदि ते चेतः, सन्दिग्धं क्षितिवासव ! । ज्ञानदृष्टयोपलब्धांस्तत् , शृण्वेतान् प्रत्ययानिह ॥ ३१ ॥ नामाङ्कितं । कुमार्याश्चेन् , मुद्रारनं कुतोऽपि ते । आगच्छति करे कल्ये, सत्यं तन्मम भाषितम् ॥ ३२ ॥ तथा चतुर्दशीघस्रे, प्रत्यूषे नगराद् बहिः । पूर्वप्रतोलिकापाषं, परीक्षार्थं महीभुजाम् ॥ ३३ ॥ षड्हस्तप्रमितं स्तम्भ, स्थूलं वर्णकचित्रितम् । कुतोऽप्यानीय मोक्ष्यन्ते, तव गोत्राधिदेवता ॥ ३४॥ स च देवस्त्वया स्थाप्यः, स्वयंवरणमण्डपे । वज्रसाराभिधं यच्च, कोदण्डं तेऽस्ति वेश्मनि ॥ ३५ ॥ पूर्वजानां च तच्चापं, कृत्वा नाराचसंयुतम् । पूजयित्वा महाभक्त्या, स्थाप्यं स्तम्भस्य सन्निधौ ॥३६॥ तत्कोदण्डं समारोप्य, नाराचेन नरोऽत्र यः। स्तम्भं भेत्स्यति स ज्ञेयः, कन्यायास्ते वरो ननु ॥३७॥ स्तम्भस्यास्ति पुनस्तस्य, विशिष्टः पूजनक्रमः। निमित्तेन मया ज्ञातमिदं सर्वमपि प्रभो !॥ ३८ ॥इमानि | यदि चिह्नानि, न मिलन्ति सुताऽपि न । ततस्तिष्ठन्ति काष्ठानि, स्वायत्तान्यमिना समम् ॥३९॥ तस्यैवं वचनं श्रुत्वा, जनः सर्वः प्रमोदभाग् । निमित्तज्ञनरस्येति, चक्रे संस्तवनं तदा ॥ ४४० ॥ पुण्यैरस्माकमत्र त्वं, समायातोऽसि । सन्नर ! । जगतः सकलस्याप्युपकारोऽद्य त्वया कृतः ॥४१॥ फणीन्द्रकूर्मराजाभ्यां, वाङ्मात्रेण धृता मही । नूनं । सत्पुरुषैर्युष्मादृक्षैः सत्पुरुषैधुता ॥ ४२ ॥ अहो सज्ज्ञानलक्ष्मीस्ते, परोपकृतिबन्धुरा । तत्त्वं नन्द चिरं जीव, निस्सीम Jain Education a l For Private & Personel Use Only Oww.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy