SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ म. सु. ॥ ३३ ॥ Jain Education चिताग्निं प्रथमोत्थितम् ॥ १८ ॥ विध्यापिते चितावह्नौ, राजा देवीसमन्वितः । बाह्याभ्यन्तरतापेन, सन्तप्तोऽपि म. का. बहिष्कृतः ॥ १९ ॥ नैमित्तिको बभाषेऽथ, राजन् ! मा भूस्त्वमाकुलः । सा जीवन्त्यस्ति ते कापि, पुन्त्री मलयसुन्दरी ॥ ४२० ॥ निमित्तस्य बलेनाहं जानामि नरनायक ! । तस्येत्युक्तिसुधासेकान्निर्वृत्तो भूपतिर्जगौ ॥ २१ ॥ अहो नैमित्तिकैतावान्, पुण्यभारोऽति मे नहि । जीवन्तीं स्वसुतां येन, कापि द्रक्ष्याम्यहं पुनः ॥ २२ ॥ तादृक्षे यदि कूपे सा, कृतान्तोदरसन्निभे । पतिताऽपि मृता नैव, न कोऽपि म्रियते ततः ॥ २३ ॥ किन्तु पश्चात्तापपूरसंततेन च चेतसा । अवटे, तुत्र नो लब्धा, बहुधाऽपि विलोकिता ॥ २४ ॥ कुमारी तन्मृता नूनं, जग्धा जीवेन केन - चित् । अतो मम सुखेनाग्नौ, मरणं किं न यच्छथ ? ॥ २५ ॥ नैमित्तिकस्ततः स्माह, शृणु राजन् ! वचो मम । अद्येयं वर्त्तते कृष्णा, द्वादशी तिथिरुत्तमा ॥ २६ ॥ अतो दिनात्तृतीयेऽह्नि, भूतेष्टाप्रहरद्वये । मिलितेषु समग्रेषु, लोकेषु क्षितिपेषु च ॥ २७ ॥ आहूतेषु कुमारेषु, मण्डपेऽत्र स्वयंवरे । यथास्थानोपविष्टेषु, पाणिग्रहणवाञ्छया ॥ २८ ॥ कुतोऽपि सहसा तस्याः, कुमार्या दर्शनं तव । वस्त्रालङ्कारयुक्ताया, भविष्यत्यविचिन्तितम् ॥ २९ ॥ त्रिभिः कुलकम् । यथेच्छं तद्विधातव्यः, स्वयंवरणमण्डपः । आगच्छन्तो नृपा नैव, वारणीयाः प्रभो ! त्वया ॥ ४३० ॥ For Private & Personal Use Only ॥ ३३ ॥ jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy