SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ मेकाकिनी तत्र, स्थाने तु स्थातुमक्षमा । कान्दिशीका विनिःसृत्य, वेगेनात्र समागता ॥ ६८ ॥ यन्मे पृष्टं कुमारौ भो !, युवाभ्यां भयकारणम् । तन्मया कथितं सर्वमपि दुःखौघपूर्णया ॥ ६९ ॥ कुमारोऽथावद्दुष्टयोषितां चरितान्यहो । विनाशितं सुदुष्प्रापं कन्यारत्नं कथं तया ? ॥ ३७० ॥ जीवितव्यस्य सन्देहे, स्थापितोऽपि नरेश्वरः । कृताः प्रजाश्च निर्नाथा, इदं राज्यं च कम्पितम् ॥ ७१ ॥ आत्मनः सर्वनाशश्च, देशत्यागश्च निर्मितः । अकीर्त्तिर्वर्द्धिता लोके, तुच्छा धीर्योषितामहो ॥ ७२ ॥ सोमा स्त्री साऽवदत्तावद्, विभात्येषा विभावरी । तदेष्यति कुतोऽप्यत्र, कोऽपि | भूपालपूरुषः ॥७३॥ गच्छाम्यहं पुरः क्वापि, जल्पन्तीति चचाल सा । कुमारौ तौ च पश्यन्ती, प्रसन्नस्निग्धया दृशा ॥ ७४ ॥ कुमारोऽथ कुमारीं तां प्रत्युवाचाऽऽवयोरियम् । तद्दिनादपि क्रुद्धाऽद्य, वैरमेवं विशोधितम् ॥ ७५ ॥ अस्याः कनकवत्यास्तु, दास्या एवेति मूलतः । ज्ञातः सर्वोऽपि वृत्तान्तस्तावको राजनन्दने ! ॥ ७६ ॥ अहो स्वल्पेन कालेन, भुक्तं दुःखं त्वया महत् । इदृग्दुःखैर्न यद्भिन्नमहो ते हृदयं दृढम् ! ! ! ॥ ७७ ॥ अन्धकूपस्य मध्ये त्वं, निपातगतचेतना । नूनमेतेन गलिताऽऽजगरेण दुरात्मना ॥ ७८ ॥ कूपोऽपि सोऽत्र कुत्रापि प्रत्यासन्नो भविष्यति । तस्मात् केनापि मार्गेणाऽजगरोऽयं विनिसृतः ॥ ७९ ॥ आम्रस्कन्धेन संश्लेषं, दातुमेषोऽत्र चागतः । कराभ्यां च मया धृत्वा, Jain Education International For Private & Personal Use Only म. का. ॥ ३१ ॥ www.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy