________________
म.मु.
कृत्वा मनसि निर्भया ॥१६॥ गच्छन्ती पादचारेण, वेष्टिता राजपूरुषैः । साऽपतत्पुनरुत्तस्थौ, प्रस्खलच्च पदे पदे ॥१७॥ हा कुमार! किमस्माकं, हृदयं न स्फुटेदिह । उड्डीयन्ते न किं प्राणा ?, दुःखदग्धाः स्थिताः किमु ? ॥ १८ ॥ हाहा । ते मधुरालापाः, क सन्मानमपि क्वचित् । क मिथो मन्त्रितं तच्च, जल्पतीति सखीजने ॥ १९॥ स्वामिन्येषा तवा- 81 वस्था, किमस्माकं बभूव न । जीवन्तः किं करिष्यामो ?, निर्नाथाश्चाधुना वयम् ॥ ३२० ॥ त्वां विना दुःखिता बाढं, स्थास्यामः स्थानकान्तरे । स्मरतीति मुहुः कर्मकरलोकेऽनुगच्छति ॥ २१ ॥ हाहा महानराधीश !, त्वयाऽस्थाने कृता || ||रुषः । अपराधेऽपि किं हन्त!, स्वमपत्यं निहन्यते ॥ २२ ॥ यद्यष चिन्तितोऽनर्थस्त्वया नाथ ! विचक्षण!। कथं जातदेष आरब्धः, स्वयंवरणमण्डप: ? ॥ २३ ॥ कन्योहाहोत्सुकानां तु, प्राप्तानामिह भूभुजाम् । सर्वेषां साम्प्रतं तेषां,
हा दास्यसि किमुत्तरम् ?॥२४॥ हा हा चम्पकमाले! त्वं, माताऽस्यास्तत् कथं बलात् । राजा न वारितो दुष्टाध्यव-||
सायादपि त्वया ? ॥ २५॥ हाहा सुमानुषीरत्नशून्यं सर्वमभूज्जगत् । एतावतां गुणानाञ्च, क आवासो भविष्यति ? | ॥२९ ।। on २६ ॥ विलपत्येवमत्यर्थ, विज्ञपय्य नृपं बहुः । विलक्षीमूय मिलिते, समन्तान्नगरीजने ॥ २७ ॥ राजाङ्गजा विदा-/ रितचरणा कण्टकादिभिः । क्षरद्रक्ताऽन्धकूपस्य, तस्य कण्ठं समासदत् ॥२८॥ एकादशभिः कुलकम् । महाबलकुमारः
Jain Education
lional
For Private & Personel Use Only
Silw.jainelibrary.org