________________
स्वप्राणतोऽपि हि । सञ्जाता वैरिणी कापि, किन्तु पुत्रीमिषादियम् ॥ ७८ ॥ जीवयत्यनुरक्ता स्त्री, विरक्ता मारयत्यपि । मित्रं करोत्यमित्रं द्राग्, मित्रममित्रमीर्घ्यया ॥ ७९ ॥ ततो यावदियं दुष्टैर्न सङ्गच्छेत वैरिभिः । तावत्सुखेन । हन्येत, विनष्टाङ्गुलिवत्प्रिये ! ॥ २८० ॥ गमयित्वा त्रियामां तामतिकृच्छ्रेण भूभुजा । एवं प्रभातवेलायामादिष्टो. दण्डपाशिकः ॥ ८ ॥ रेरे मम सुताऽप्येषा, पापा मलयसुन्दरी । हन्तव्याऽऽशु त्वया लात्वा, प्रष्टव्यं न पुनः पुनः ॥ ८२ ॥ ज्ञात्वा व्यतिकरं चैनं, समागत्याऽऽशु बुद्धिमान । सुबुद्धिसचिवो रोषदुष्प्रेक्षं भूपमब्रवीत् ॥ ८३ ॥ देवेदं किं त्वयाऽऽरब्धं ?, दारुणं ह्यसमंजसम् । इदानीं किं भवत्पुत्री, न सा मलयसुन्दरी ॥ ८४ ॥ क स स्नेहो गतः किंवाऽपराद्धं कन्ययाऽनया । कार्य सर्वमपि स्वामिन् !, कर्तुमालोच्य युज्यते ॥ ८५ ॥ विचारवर्जितं कार्य, क्रियमाणं न सुन्दरम् । पश्चात्तापो भवेत्पश्चात्, स कोऽपि म्रियते यतः ॥ ८६ ॥ राज्ञा कनकवत्योक्तं, सर्वमाख्याय तत्ततः । तथा स बोधितो मन्त्री, यथा तूष्णीं भयादभूत् ॥८७॥ राजाऽऽदेशेन गत्वाऽथ, तलारक्षो जनान्वितः । कन्यासौधस्थितां कन्यामब्रवीत् मन्दवागिति ॥ ८८ ॥ आदिदेश वधं राजा, कुमारि ! कुपितस्तव । आदेश देहि मे हन्तुं, हतकर्मा करोमि किम् ? ॥ ८९ ॥ सुदीनवदनाऽश्रान्तपतबाष्पजलार्दिता । किंकर्तव्यतया मूढा,
Jain Education
a
l
For Private & Personel Use Only
AN.jainelibrary.org