________________
सुतां मलयसुन्दरीम् ॥ ६५ ॥ इत्यनेकमृषावाक्यैर्वैरिण्या पूर्वजन्मनः । तथा प्रकोपयाञ्चके, तया राजाऽतिदुष्टया ॥६६॥ य. का. यथा रोषान्धलो जातो, विसृज्याऽऽवां नरेश्वरः । देवी चम्पकमालां तामेकान्ते समजूहवत् ॥ ६७ ॥ सर्व निवेदितं । तस्याः, साऽथ रोषारुणा जगौ । नो चेद्दास्यति तं हारं, पुत्री सत्यं तदाऽखिलम् ॥ ६८ ॥ नृपेणाऽऽकारिता तत्र, तं हार याचिता सती । प्राक् सम्भ्रान्ता ततो भीता, कुमारी मौनमाश्रिता ॥ ६९ ॥ पश्चात्सङ्कल्प्य सा चित्ते, ददावेवं मृषोचरम् । मत्पार्धात्तात ! केनापि, स हारोऽपहृतो ननु ॥२७० ॥ कुपितेन ततो राज्ञा, जगदे सा पुरो व्रज । हा पापे!! | प्रसरावासे, मा मुखं दर्शयाऽत्मनः ॥ ७१ ॥ जननीसहितं तातं, दृष्ट्वा सा कुपिता भृशम् । ततो व्यावृत्य || वेगेन, सम्प्राप्ता निजमन्दिरम् ॥ ७२ ॥ अप्रियं स्निग्धपित्रोः किं कृतमज्ञानया मया । न स्मरामि ह हा किञ्चित्, भविष्यामि कथं कथम् ? ॥७३॥ हारे हृतेऽपि कथिते, परस्मिन्नपि नेदृशः । पित्रोर्भवति मे कोपो, परं नावैमि । किञ्चन ॥ ७४ ॥ इत्यादि चिन्तयन्ती सा, स्मरन्त्यागोऽपि मूलतः । कुमारी दुःखिता तस्थौ, विच्छायाऽऽननपङ्कजा ॥२७॥ ॥ ७५ ॥ नृपेणोचे स्फुटं देवि!, कुमा- दुष्टचेष्टया । लक्ष्मीपुञ्जाभिधो हारः, कुमाराय समर्पितः ॥ ७६ ॥ ततः कनकवत्या यत्, कथितं तन्मृषा नहि । मारयिष्यति मामेषा, तैर्दुष्टैमिलिता घनैः ॥७७॥ एषा दुष्टाऽऽवयोरिष्टाऽतीव
Jain Education
Co
onal
For Private & Personel Use Only
Oww.jainelibrary.org