________________
सः ॥ ५२ ॥ पश्य सर्वत्र कोऽप्यत्र, वत्से ! तिष्ठति कुत्रचित् । इत्युक्ते कोऽपि पश्यन्त्या, मया दृष्टस्तयाऽपि न ॥ ५३ ॥ क्षणं ध्यात्वा महाकूटं, किमप्यूचेऽहमेतया । कथनीयो न कस्यापि, हारलाभस्त्वयैष तु ॥ ५४ ॥ हारं सङ्गोप्य भूपस्य, पार्श्वे साऽगान्मया सह । याचित्वैकान्तमेवञ्च पृथ्वीपालं व्यजिज्ञपत् ॥ ५५ ॥ पृथ्वीस्थानपुरे स्वामिन् !, सूरपालो महीपतिः । महाबलः कुमारश्च तस्य रूपकलानिधिः ॥ ५६ ॥ अत्र प्रच्छन्नमायाति, तस्यैकं मानुषं सदा । पार्श्वे मलयसुन्दर्या, वल्लभाया अतीव नः ॥ ५७ ॥ लक्ष्मीपुञ्जो महाहारः, स्वामिन् ! राज्येन यः समः । कुमार्या प्रेषितः सोऽद्य, कुमारस्यास्य हेतवे ॥ ५८ ॥ संदिष्टं च तदा तस्मै, कुमारात्र त्वया पुरे । एतव्यं बलयु केन, स्वयं| वरमिषाद् द्रुतम् ॥ ५९ ॥ अन्येऽपि बहवो भूपा, मिलिष्यन्ति तवात्र ते । मत्सङ्केतादिदं राज्यं, गृह्णीया उद्वहेश्व | माम् ॥ २६० ॥ कुमारी सरला देव !, तेनैवं विप्रतारिता । राज्यलुब्धेन धूर्चेन, गर्वितेन निजौजसा ॥ ६१ ॥ | तत्किमपि मृगाक्षीणां, चित्ते तुच्छधियामिह । स्वामिन् ! मधुरवाणीनां प्रस्फुरत्यसमञ्जसम् ॥६२॥ यत्प्रभावेण भर्त्तारं, भ्रातरं पितरं तथा । पातयन्ति महानर्थजाले ता हतबुद्धयः ॥ ६३ ॥ अनर्थोऽयं मया देव !, भविष्यन् कथितस्तव । हृदये रोचते यच्च कर्त्तव्यं तत्त्वयाऽधुना ॥ ६४ ॥ यदि न प्रत्ययोऽस्त्यत्र, विषये तव मानसे । याचस्व तं महाहारं,
Jain Education fonal
For Private & Personal Use Only
ww.jainelibrary.org