________________
म. सु.
| ॥ २४० ॥ कुमारोऽवक् सपत्नीना, तज्जातानां च सर्वदा । वैरं स्यादथ सा स्माह, भविष्यति किमप्यदः ॥ ४१ ॥ ० प० का एतावन्ति दिनान्यस्याः, पश्यन्त्याश्छिद्रसन्ततिम् । तया निर्गमितानीह, दुष्टया क्लिष्टचित्तया ॥ ४२ ॥ अतिक्रान्तनिशायां तु, तस्थुष्यां मयि सन्निधौ । तस्याः कण्ठेऽपतद्धारो, लक्ष्मीपुञ्जाभिधः कुतः ॥ ४३ ॥ तद्वचोऽमृतवत् श्रुत्वा, कुमार इव जीवितः । पुनर्जगाद हारः सः, पतितः स्थानकात्कुतः ? ॥ ४४ ॥ सा स्माहाऽऽकाशतोऽकस्मात्पतितः किन्तु वीक्षितः । अस्माभिः कोऽपि नाऽऽकाशे, न च दिक्षु विदिक्ष्वपि ॥ ४५ ॥ कुमारोऽचिन्तयत्तस्या, व्यन्तर्याः पार्श्वतोऽपतत् । अथ स्नेहेन केनापि, तस्याः कण्ठे व्यमोचि वै ॥ ४६ ॥ इयत्कालमभूद्यस्य, न शुद्धिः कापि केनचित् । एवंविधे महाकष्टे, यदर्थं पतितोऽस्म्यहम् ॥ ४७ ॥ यस्य स्वप्नाधिगम्यस्य, लाभाऽऽशापि न चाभवत् । प्रवृतिस्तस्य हारस्य, लब्धाहो ! पुण्यतोऽधुना ॥ ४८ ॥ तन्नूनं पूरयिष्यामि, प्रतिज्ञां तां निजां कृताम् । जीविष्यति | कुलं सर्वमम्बा हृष्टा भविष्यति ॥ ४९ ॥ लब्ध्वा कनकवत्या तं किं किं सुन्दरि ! निर्मितम् ? । कुत्र गतश्च हारः स, लक्ष्मीपुञ्जो मनोरमः ॥ २५० ॥ सोमा स्माह तया देव्या, हृष्टयाऽभाणि मा प्रति । अहो अपूर्वमाश्चर्य, हजे ! त्वं | पश्य पश्य भोः ! ॥ ५१ ॥ पतितो यदीह स्थाने, निःसञ्चारे शरीरिणाम् । कुतोऽप्यागत्य कण्ठे मे, कुमार्या हार एष
॥ २६ ॥
Jain Education
For Private & Personal Use Only
॥२६॥
jainelibrary.org